पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पप्रच्छ कौसल्याश्वस्तो भरतो विस्तृतां कथाम् ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषखजे ॥ ७ ॥ अनुसृत्य – समीपं प्राप्य ॥ ७ ॥ APIPFIRIE ८७ सर्गः] वत्सला स्वं यथा वत्सं *1 उपगूह्य तपस्विनी । परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ ८ ॥ स्वं वत्सं स्वीय पुत्रं यथा, तथा ॥ ८ ॥ 223 2 +पुत्र! व्याधिर्न ते कच्चित् शरीरं प्रति बाधते । अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् ॥ ९ ॥ हे पुत्र ! ते शरीरं व्याधिः-परमपित्तप्रकोपलक्षणः न बाधते कच्चित् ? अन्यथा एवं भ्रममूर्छाप्रलापनानि न स्युः ॥ ९ ॥ त्वां दृष्ट्वा, पुत्र ! जीवामि रामे सभ्रातृके गते । वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ १० ॥ +' कच्चिन लक्ष्मणे, पुत्र! श्रुतं ते किञ्चिदप्रियम् । पुत्रे वा ह्येकपुत्रायाः सहभायें वनं गते ॥ ११ ॥ अथ उक्तभ्रममूर्छाप्रलापानां हेत्वन्तरं पृच्छति - कच्चिन्नेत्यादि । लक्ष्मणे-तद्विषये । अप्रियं-प्राणात्ययरूपम् ॥ ११ ॥

  • उपगूह्य – परिष्वज्य - गो. + न हि भरतस्य व्याधिश्चातुर्थिकः, अपि तु रामविरह

एव (पुत्रव्याधिरित्येकं पदं ) रामविरह: ते शरीरं (न) बाधते कञ्चित् इत्यर्थ: । अद्येति-रामो वनं गतः, चक्रवर्ती तु संस्थितः, अतस्त्वमेवेदानीं अस्माकं रक्षक इति नार्थः; किन्तु, राम: भवतो मुखवैवर्ण्य दृड्वा न पुनरागतो भवेत् । अवश्यमागमिष्यतीत्येतदवेक्ष्य वयं जीवामः । भवान्नास्तीति श्रुतं चेत् क इमां दिशमवलोकये दित्यर्थ:- गो. परन्त्वत्र उत्तर श्लोका विलोक- नीया: । 'ततस्सर्वाः समापेतुर्मातर: ' (६) इत्यनेन भरतमूर्छाप्तिकाले कौसल्यादीना- मसन्निहितत्वात्, भरतमुर्छाहेत्वपरिज्ञानात्, 'अतिस्नेहः पापशकी' इति न्यायेन राम- लक्ष्मणयौर्विपश्यादिश्रवणादेव भरतो मूर्छित इति भावनया कौसल्या पृच्छति कश्चिदित्यादि । 1 उप मनस्विनी-- परिवाचते-ङ. 3 कचिन्नुङ.