पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अयोध्याकाण्ड:

  • सुकुमारो महासत्वः सिंहस्कन्धो महाभुजः ।

पुण्डरीकविशालाक्षः तरुणः प्रियदर्शनः ॥ २ ॥ 'ध्यानं जगाम' इत्युक्तं; तस्यैवैतदभिनय:- सुकुमार इत्यादि । प्रियदर्शनः 'कथं जटादिकं घृतवान् ? ' इति चिन्तां जगामेत्यन्वयः ॥२॥ 6 222 रामशयनादिप्रश्नः प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः । 'ससाद सहसा तोत्रैः 'हृदि विद्ध इव द्विपः ॥ ३ ॥ ततो मुहूर्तकालं चिन्तया परमदुर्मनाः परमखिन्नः प्रत्याश्वस्य तु पुनश्च सहसा दुःखवेगेन ससाद - अवशोऽभूत् । तोत्रं - Gari | हृदि-हृदयदेशे-मर्मस्थले ॥ ३ ॥ PUPTARIN 3 ' भरतं मूर्छितं दृष्ट्वा विवर्णवदनो गुहः । बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥ ४ ॥ तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः । परिष्वज्य रुरोदोच्चैः विसंज्ञः शोककर्शितः ॥ ५ ॥ तदवस्थं - विचेतनावस्थम् । अनन्तरस्थित- समीपस्थितः ॥ ५ ॥ ततः सर्वाः समापेतुः मातरो भरतस्य ताः । उपवासकृशा दीना भर्तुर्व्यसनकर्शिताः ।। ६ ।। CBSW ★ सुकुमार इत्यादि श्लोकद्वयमेकान्वयम् । प्रत्याश्वस्य मुहूर्त कालं परमदुर्मनाः सन् सहसा पपात । ससादेति वा पाठः- गो. ती. सुकुमारत्वादिगुणेन जटादिकं धृतम्, अतो निवृत्तिर्दुर्लभेति चिन्तां जगाम-ति. अथ वा - 'ध्यानं-रामविषयक चिन्तां जगाम' इत्यस्यैव विवरणम् – सुकुमार इत्यादि । अतिसङ्कटेन आत्मगतं वाक्यमिदं - सुकुमार इत्यादि । सङ्कटाधि क्यादेव वाक्यापरिसमाप्तयादि । एवं सहसा मूर्छामन्तरा क्षणकाल चिन्तनमपि आश्चर्यावहं इति भावेनानन्तरार्ध प्रवृत्तम् । 1 पपात-खु. 2 प्रतिविद्ध-ङ. 3 अयं श्लोक: ङ. पुस्तकें कुण्डलितः ।