पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

216 [अयोध्याकाण्ड - दैन्यं - दीनता, करणानां स्वस्वविषयप्रवृत्तिवैमुख्यरूपा, सा एव पादपसङ्घः यस्मिन् । शोकजः यः आयासः - चित्तश्रान्तिः सैवाधि पाणि शृङ्गाणि यस्य स तथा । सत्त्वं - आटविकप्राणिजातम् । सन्तापाः - अन्तर्बहिःकरणपरितापा एव ओषधयः वेणवश्च यस्मिन् । -अन्तर्भावितणिः, मझं कुर्वता, सकरणग्राममात्मानमघो नयता । एवंरूपेण दुःखशैलेनाक्रान्तोऽभूत् ।। १९-२० ।। मज्जता ---- भरतहसंवाद: विनिःश्वसन् वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं गतः । शमं न लेभे हृदयज्वरार्दितः

  1. 2

नरर्षभो 2 यूथहतो यथर्षभः ॥ २१ ॥ - प्रकर्षेण मूढा संज्ञा – चेतना यस्य स तथा प्रमूढसंज्ञः । यूथहतः - यूथविभ्रष्टः ॥ २१ ।। गुहेन सार्धं भरतः समागतः महानुभावः सजनः समाहितः ।

  • अयूथगत: (पा.) - यूथात् भ्रष्ट इत्यर्थः । यूथहत इति पाठे-हृतयूथ इत्यर्थ:- गो.

अथ गुहः समागत इत्याइ गुहेनेति । सजन:-सपरिवार: समाहित :- एकाग्रचित्तः भरत: गुहेन साधं-सह समागतः - संगतः । अथ गुहः सुदुर्मना:- भरतक्लेशदर्शनेन भरतादपि भृशं दुर्मनाः सन् भरतं अग्रजं प्रति-अग्रजं लक्षीकृत्य समाश्वासयत्-गो. अग्रजं प्रति समागतः भरत: गुहेन सार्धं सुदुर्मना:- सुदुःखितः, अभूदिति शेषः । तं भरतं गुह:- पुन: गुहस्तु समाश्वासयदिति सम्बन्धः - ती. अथवा - यत्तदोर्नित्यसम्बन्धात्, अग्रजं प्रति सुदुर्मना: य: भरन:- इतिपर्यन्तं वृत्तानुवाद: ; तदा पुनः तं गुह: समाधा- सयदिति- उत्तरसगंसङ्गह: । रामे निरतिशयप्रेमवतः तदीयकथाश्रवणं परमाश्वास एव । अथवा पूर्वसर्गादारभ्य पञ्चानां सर्गाणां संग्रहरूपोऽयं निष्कृष्टः श्लोकः । अत एव 89 सर्गारं ' व्युष्य रात्रि ' इत्युपक्रमः । भरते गुहस्य प्रत्ययात, गुह: रामविषयककथां सर्वा कथयामास । तेन च भरत: सुदुर्मना बभूव । तं गुह: समाश्वास्य स्वगृहं गतः । पुनः प्रातरागतवान् गुह इति प्रतीयते । 89 सर्गस्थ 4 श्लोकोऽत्रावधेयः । भृशदु:खित ङ. 2 sयूथगतो- ङ. १