पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आश्वासयन्च शोकाभिसंतप्तं भरतं गुहः अन्तर्दाहेन दहनः सन्तापयति राघवम् । वनदाहाभिसन्तप्तं गूढोऽग्निरिव पादपम् ।। १७ ॥ दहनः- - शोकाभिः । वनदाहकोऽग्निः –वनदाहाभिः- दावाग्निरिति यावत्, तेन सन्तप्तं - शुष्कमिति यावत् । गूढोऽभिः-- कोटरान्तर्गतः ॥ १७ ॥ - ८५ सर्ग:]

प्रसृतः सर्वगात्रेभ्यः स्वेदं शोका संभवम् । यथा सूर्यांशुसन्ततः हिमवान् प्रसृतो हिमम् ॥ १८ ॥ हिमं प्रसृत इति । कर्तरि निष्ठा, गत्यर्थत्वात् ॥ १८॥ 215 TPOW ध्याननिदरशैलेन विनिश्वसितधातुना । दैन्यपादपसङ्खेन शोकायासाधिशृङ्गिणा ।। १९ ।। प्रमोहानन्तसत्वेन सन्तापौषधिवेणुना । आक्रान्तो दुःखशैलेन ' मज्जता कैकयीसुतः ॥ २० ॥ ध्यानेत्यादिना दुःखस्य पर्वतसमाधिः । रामविषयकध्यानान्येव निर्दरशैलाः— विदीर्णशिलासमूहाः यस्मिन् स तथा । धातुः गैरिकादिः । HOFF BUFF -

  • ' हिमं प्रसृतो हिमवान्' इतिवत् 'स्त्रेदं प्रसृतः भरतः' इत्यन्वयः |

↑ ध्याननिदरशैलेन । दरः - गर्तः, तस्मान्निर्गत–निर्दरं; शिलानां समूहः शैलम् ; रामविषयध्यानमेव निर्दरशैलं यस्मिन्, तेन । ध्यानस्य निरंतरत्वेन दरीविदीर्ण- शिलापसिाम्यम् । विविध निश्वसितं– विनिश्वसितं, तदेव धातुः यस्मिन् ; विविध- स्वसाम्यात् । दैन्यं – करणानां स्वस्वविषयप्रवृत्तिवैमुख्यं, तस्य पादपसाम्यं अबोध- रूपतया । शोकायासाधिशृङ्गिणा – शोकादय एव शृङ्गिणः कृष्णसारादय: यस्मिन् तेन । यद्वा शोकायासाधिभिः शृङ्क्षिण – शृङ्गवता; दृढत्व (दुरा रोहत्व) साम्यात् । प्रमोहानन्तसत्वेन – प्रमोहा एत्र अनन्तानि सवानि जन्तवः यस्मिन्, तेन; 'द्रव्यासुव्यव- सायेषु सत्त्वमस्त्री तु जन्तुषु' इत्यमरः ; प्राणभयशङ्काकरत्वात् । सन्तापौषधिवेणुना- सन्तापा एव ओषधयो वेणवश्च यस्मिन्, तेन; ओषधिवेणुसाम्यं दुष्प्रवेशत्वात् । आक्रान्तः, अभूदिति शेष: । महता — अतिगुरुणा । 'मज्जता' इति पाठे - अवयवेषु प्रविशता - गो. - स्वेदः -ङ. 2 संभव:- ङ. 3 महता-ङ.