पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

214 15 भरतगुहसंवाद: [अयोध्याकाण्ड: ● अतो न दुश्शङ्कावकाश इत्याह-तं निवर्तयितुमित्यादि ॥ १० ॥ स तु * संहृष्ट वदनः श्रुत्वा भरतभाषितम् । पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥ ११ ॥ धन्यस्त्वं न त्वया तुल्यं पश्यामि 2 जगतीतले । अयत्नादागतं राज्यं यस्त्वं त्यक्तमिच्छसि ॥ १२ ॥ शाश्वती खलु ते कीर्तिः लोकाननु चरिष्यति । यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ १३ ॥ SD चरिष्यति — प्रचरिष्यति ॥ १३॥ एवं संभाषमाणस्य गुहस्य भरतं तदा बभौ नष्टप्रभः सूर्यः रजनी चाभ्यवर्तत ॥ १४ नष्टप्रभ इति । मन्दीभूतरश्मिरित्यर्थः ॥ १४ ॥ 3. सन्निवेश्य स तां सेनां गुहेन ' परिरक्षितः । शत्रुघ्नेन सह श्रीमान् शयनं + पुनरागमत् ॥ १५ ॥ गुहेन परिरक्षितस्सन्—परिदुताविकचोरबाघस्सन् ॥ १५ ॥ Sरामचिन्तामयः शोकः भरतस्य महात्मनः । उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ॥ १६ ॥ अनर्हस्येति । दुःखानई स्येत्यर्थः ॥ १६ ॥

  • संहृष्टवदनः – प्रसन्नवदन:- गो. अन्त: हृष्टत्वात् संहृष्टवदन इति । + एवं

भरतं संभाषमाणस्य प्रशंसत: गुहस्य गुहे प्रशंसतीति यावत् । अत्र पुनश्शब्देन, गुहागमनात् पूर्व श्रान्तः शयने स्थित इति गम्यते । समुपागमदिति वा पाठ: । पुनः परितोषित: (पा.) इति वा सम्बन्धः- गो. शयनं प्राप्तस्यापि निद्रा नाजगामे- त्युच्यते - रामेत्यादिना । 2 जगतीपते-कु. 3 परितोषितः-च. 1 हृदयः-ङ,