पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुह: शुभाशयं ज्ञात्वा भरतस्य ननन्द छ 3 दाशा'स्त्वाऽनुगमिष्यन्ति 'देशज्ञाः सुसमाहिताः । अहं ' चानुगमिष्यामि, राजपुत्र ! महाबल ! ॥ ६॥ अहं च त्वाऽनुगमिष्यामि । अतो गहनविषयको न कश्चन विचार इति शेषः ॥ ६ ॥ ८५ सर्गः] 213 कञ्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः । इयं ते महती सेना शङ्कां जनयतीव* मे ॥ ७ ॥ अपि तु अक्लिष्टकर्मणो रामस्य विषये दुष्टः- दुष्टभावो भूत्वा न व्रजसि कच्चित् ? ननु का ते दोषशङ्केत्यत्राह-इयमित्यादि । रामसन्दर्शनार्थगमने तु एतावत्सन्नाहस्य व्यर्थत्वात् अयमेव सन्नाहः मे शङ्कां जनयतीव ॥ ७ ॥ तमेवमभिभाषन्तं + आकाश इव निर्मलः । भरतः लक्ष्णया वाचा गुहं वचनमब्रवीत् ।। ८ ।। मा भूत् स कालो यत् कष्टं, न मां शङ्कितुमर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः ॥ ९ ॥ मा भूदिति । 'यत्' इत्यव्ययम्, यस्मिन् काले कष्टं- परस्परोपमर्दलक्षणं भ्रातृकश्मलं भवति तादृशः स कालः - तादृश- दुष्प्रवृत्तिसाधन भूतकालशङ्का मा भूत्-न कर्तव्य इत्यर्थः । कुत इत्यतः -राघव इत्यादि । पितृसम इति तद्बुद्ध्यास्पदभूतः ॥ ९ ॥ - तं निवर्तयितुं यामिं काकुत्स्थं वनवासिनम् । बुद्धिरन्या न ते कार्या, गुह ! सत्यं ब्रवीमि ते ॥ १० ॥ DIFFIMIS

  • इवशब्द: शङ्काया ईषत्वं द्योतयति-गो. 'आकाश इव निर्मल: ' इत्यनेन

तच्छतिदोषस्य तत्र प्रसक्तिरेव नास्तीत्युच्यते-गो. 1 2 धन्विन:- ङ. 3 त्वाऽनु-ड. महायशः -ड.