पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
168
[अयोध्याकाण्ड:
भरतशत्रुघ्नविलापः


कृतशौच इति । अनुष्ठितप्रेतत्वविमुक्तिरैकाहश्राद्ध इति यावत् । श्राद्धकर्माणीति। [१]द्वितीयमासिकादिसपिण्डीकरणान्तश्राद्धानीत्यर्थः ॥ १ ॥

[२]ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् ।
[३]बास्तिकं [४] बहु शुक्लं च गाथापि 'बहुशस्तदा ॥ २ ॥
दासीर्दासांश्च यानानि वेश्मानि सुमहान्ति च ।
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञस्तस्यौर्ध्वदैहिकम् ॥ ३ ॥

 बास्तिकं-बस्तसमूहं, छान्दसष्ठक्, ‘अजः प्रोक्तः ततो बस्तः छागश्छागलगच्छगाः' । शुक्लं रजतं, 'शुक्लो योगान्तरे श्वेते शुक्लं च रजते मतम्' इति विश्वः । ऊर्ध्वं देहात् ऊर्ध्वदेहः, तत्र भवं और्ध्वदैहिकं, 'ऊर्ध्वदेहाच्चेति वक्तव्यम्' इति ठक् ॥ २-३ ॥

ततः प्रभातसमये दिवसे च त्रयोदशे ।
विललाप महाबाहुः भरतः शोक[५]मूर्छितः ॥ ४ ॥
शब्दापिहितकण्ठश्च शोधनार्थमुपागतः ।
चितामूले पितुर्वाक्यं इदमाह सुदुःखितः ॥ ५ ॥

 विललापेति । उच्यमानविशेषणको भरतः शोधनार्थमुपागतः सन् यथाकालं दशाहाभ्यन्तरे अस्थिसञ्चयनं कृत्वा श्राद्धाद्यनन्तरं त्रयोदशदिवसे चिताभस्मोद्धारपूर्वकं स्थलशुद्धिश्च कर्तव्य इति क्षत्रियकुलाचारः । एवं वाल्मीकिवचनमंत्र प्रमाणम् [६]


  1. षोडशमासिकानि सपिण्डीकरणान्तानि अकारयत् – अकरोदित्यर्थ:- गो.
  2. एतदनन्तरं - वासांसि च महार्हाणि रत्नानि विविधानि च - इत्यधिकं - ङ. झ.
  3. हास्तिकं-ङ
  4. बहु शुक्लमिति छागविशेषणम्-गो. शुक्लं- शुद्धं, दानार्हमित्यर्थ:-ती.
  5. कर्शित:- ङ.
  6. 'सावशेषास्थिनिचये' इति वक्ष्यमाणत्वात् त्रयोदशेऽप्यस्थिसञ्चयनं सूत्रान्तरे दृश्यते - गो.