पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७ सर्ग:]
167
भरतः शोकमग्नोऽभूत् सर्वं कृत्वौर्ध्वदैहिकम्


कृत्वोदकं ते भरतेन सार्धं
नृपाङ्गना मन्त्रिपुरोहिताश्च ।
पुरं प्रविश्याश्रुपरीतनेत्राः
भूमौ [१] दशाहं [२]व्यनयन्त दुःखम् ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्सप्ततितमः सर्गः



 भूमौ -भूशयनाद्युपलक्षितब्रह्मचर्येण । ’दशाहं ' इत्यत्यन्तसंयोगे द्वितीया, तावत्कालक्षपणीयमाशौचमित्यर्थः । ननु ’द्वादशाहेन भूपालः क्षत्रियः षोडशेऽहनि' इति स्मृतेः कथं दशाहेनाशौचात्ययः ? – सत्यम् - 'क्षत्रियस्तु दशाहेन स्वकर्मनिरतः शुचिः' इति पराशरस्मृत्युक्तविशेषस्य स्वकर्मनिरतत्वस्य सत्वात् राजर्षेस्तस्य दशाहमात्रतो निवृत्तिराशौचस्य | कर ( २१, मानः सर्गः ॥ २१ ॥  इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षट्सप्ततितमः सर्गः


सप्तसप्ततितमः सर्गः

[भरतशत्रुघ्नविलाप:]

ततो दशाहेऽतीते तु कृतशौचो नृपात्मजः ।
द्वादशेऽहनि संप्राप्ते श्राद्धकर्माण्यकारयत् ॥ १ ॥

 अथाशौचानन्तरं श्राद्धादिप्रवृत्तिः तस्य । तत इत्यादि ! दशाह इति । दाहदिनमारभ्येति शेषः । दशाहेऽतीते तु-एकादशेऽह्वि।


  1. अत्र स्त्रीणां प्रेतप्रदक्षिणं उदकदानं च सूत्रान्तरोक्तं ज्ञेयम्- गो.
  2. व्यचरन्त-ङ.