पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
166
[अयोध्याकाण्ड:
दशरथौर्ध्वदैहिकम्


[१] गन्धानुच्चावचांश्चान्यान्, [२]तत्र गत्वाऽथ भूमिपम् ।
ततः संवेशयामासुः चितामध्ये तमृत्विजः ॥ १५ ॥
तथा [३] हुताशनं [४]दत्त्वा जेपुस्तस्य [५] ' [६].तदृत्विजः ।
जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥ १६ ॥

 जेपुरिति । पैतृमेधिकमन्त्रविशेषानिति शेषः । तस्येति । परम- गत्यर्थमिति शेषः । तदृत्विज इति । तद्यज्ञप्रवर्तका इत्यर्थः ॥ १६ ॥

शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः ।
नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा ॥ १७ ॥

यानैः-आन्दोलिकाद्यैः ॥ १७ ॥

प्रसव्यं चापि तं चक्रुः ऋत्विजो[७] ऽग्निचितं नृपम् ।
स्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा ॥ १८ ॥

 प्रसव्यं प्रदक्षिणम् । अग्निचितं - अग्निं चितवन्तम् । 'अग्नौ चेः' इति भूते क्विप्, अश्वमेधान्तमहायज्ञकर्तारमिति यावत् ॥ १८ ॥

क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे ।
आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ १९ ॥
ततो रुदन्त्यो विवशाः विलप्य च पुनः पुनः ।
[८]यानेभ्यः सरयूतीरं अवतेरु[९]वराङ्गनाः ॥ २० ॥


  1. गन्धानुच्चावचांश्चान्यान् क्षेपयन्तीत्यन्वयः ।
  2. तत्र गत्वा - चितास्थलं गत्वा ।
  3. हुताशनं दत्त्वा-भरतेन दापयित्वा- गो.
  4. हुत्वा-ड.
  5. तमिति हुताशनविशेषणम्-गो.
  6. तमृत्विज:-ङ
  7. अग्निचिंत-अग्निना व्याप्तमिति वा ।
  8. पितृवनात् यानमारुह्य सरयूतीरमागताः यानेभ्य: अवतेरु: ॥
  9. र्नृपाङ्गना:-ङ.र्