पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७ सर्ग:]
169
स्मरन् वृत्तं तु पितरं बहुधा विललाप सः


उपागतस्सन् तत्र पितुः चितामूले विललाप । शब्देन - रोदनशब्देन अपिहितः -छन्नः व्याप्तः कण्ठः यस्य स तथा । अथ तत्रैव चितामूले इदं विलापवाक्यं चाह ॥ ४-५ ॥

तात ! [१] यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे ।
तस्मिन् वनं प्रत्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया ॥ ६ ॥

किमाहेत्यतः – तातेत्यादि । निसृष्टः --दत्तः । तस्मिन् प्रव्राजिते सति, छान्दसो ह्रस्वः, त्वयाऽहं शून्ये त्यक्तः - निरवलम्बतया निरस्त इत्यर्थः ॥ ६ ॥

यस्या गतिरनाथायाः [२] पुत्रः प्रव्राजितो वनम् ।
तामम्बां, तात! कौसल्यां त्यक्त्वा त्वं क्व गतः, नृप ! ॥
दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् ।
पितुः {{bold|<poem>शरीरं निर्वाप्यते-विनाश्यते अस्मिन्नति शरीरनिर्वाणं, अधिकरणे ल्युट्-गो.

शरीरनिर्वाणं निष्टनन् विषसाद सः ॥ ८ ॥</poem>}}

अतिदाहाद्युपाधिना अरुणं तद्भस्म-चिताभस्म दृष्ट्वा तच्च दग्धास्थीनां सञ्चितानां स्थानमण्डलं-स्थानोपेतं भस्ममण्डलं तथा । एवं निर्वाणं - शान्तं - नष्टं पितुश्शरीरं दृष्ट्वा निष्टनन्-नितरां रोदनशब्दं कुर्वन् विषसाद । सः-भरतः ॥ ८॥

स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले ।
 [३] उत्थाप्यमानः शक्रस्य यन्त्रध्वज [४] इव च्युतः ।। ९ ।।


  1. यस्मिन् भ्रातरीत्यन्वयः ।
  2. पुत्रे प्रवाजिते-ङ.
  3. उत्थाप्यमान:-रज्जुभिरुत्थाप्यमानः च्युतः स्रस्तः
    शक्रस्य यन्त्रबद्धो ध्वजः – यन्त्रध्वजः, रज्जुयुक्तो ध्वज इव पपात । यथा यन्त्रपतनात् ध्वजपतनं
    तथा राजपतनात् भरतपतनमिति भावः - गो. 'शचीपते: केतुरिवोत्सवक्षये' (74-36)
    इत्यत्र उत्सवक्षयशब्देन, उत्सवार्थमारोप्यमाणो ध्वजः - शुक्रध्वजः । ध्वजस्यारोहणं च
    चक्रविशिष्टस्तं माग्रवर्तियन्त्रसंलग्नरज्जुद्वारेति प्रसिद्धमेव ॥
  4. इवोच्छ्रितः - ङ.