पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
156
[अयोध्याकाण्ड:
भरतशपथः


अप्राप्य सदृशान् दारान् अनपत्यः प्रमीयताम् ।
अनवाप्य [१]क्रिया धर्म्याः यस्यार्योऽनुमते गतः ॥ ३५ ॥

प्रमीयतां-म्रियताम् । धर्म्याः- अग्निहोत्रादिकाः ॥ ३५ ॥

[२]माऽऽत्मनः सन्ततिं द्राक्षीत् स्वेषु दारेषु [३] दुःखितः ।
आयुस्समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥ ३६ ॥

अप्राप्येति । म्रियतामिति शेषः [४]॥ ३६॥

राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते ।
भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ ३७ ॥

राजस्त्रीत्यादौ 'यस्यार्यः' इन्यनुषङ्गो द्रष्टव्यः ॥ ३७ ॥

[५] लाक्षया मधुमांसेन लोहेन च विषेण च ।
सदैव बिभृयात् भृत्यान् यस्यार्योऽनुमते गतः ॥ ३८ ॥

लाक्षया-लाक्षादिविक्रयेणेत्यर्थः । ’लाक्षालवणमांसानि वर्जनीयानि विक्रये' इति वचनात् निषिद्धस्तद्विक्रयः । विषं वत्सनाभादि । भृत्याः -भरणीयस्त्रीपुत्रादयः ॥ ३८ ॥

[६]सङ्ग्रामे [७]समुपोढे च [८] शत्रुपक्षभयङ्करे ।
पलायमानो वध्येत यस्यार्योऽनुमते गतः ॥ ३९ ॥


  1. क्रियां धर्म्यां, क्रियाधर्मं-ङ.
  2. अनेन ऋणापाकरणं विना ब्रह्मचर्यादेव संन्यासः प्रतिषिध्यते । अविरक्तविषयमिदमिति चेन्न - 'ब्रह्मचर्यादेव प्रव्रजेत् ' इत्यादे: दारालाभविषयत्वात्-गो.
  3. नित्यश. - ङ.
  4. अथ वा अल्पायुर्भूत्वा पुत्रसन्ततिमप्यप्राप्य म्रियतामित्येकमेव वाक्यम् । पूर्वार्धगतक्रियापदं परित्यज्य अध्याहारादिक्लेशात् । अत्र भिन्नवाक्यत्वे पूर्वश्लोकेऽपि तथा सुवचम् ।
  5. 'अप्यकार्यशतं कृत्वा' इत्यस्यापवादोऽयम्- गो.
  6. एतदादि श्लोकद्वयं नास्ति-झ
  7. समुपोढे - निकटे, ’उपोढे निकटोधयो:' इति वैजयन्ती-गो.
  8. शतपक्ष-ङ.