पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५ सर्ग: ]
157
भवन्तु मे तदा मात: ! पातकान्यखिलान्यपि


कपालपाणिः पृथिवीं अटतां चीरसंवृतः ।
भिक्षमाणो यथोन्मत्तः यस्यार्योऽनुमते गतः ॥ ४० ॥

चीरं मलिनं जीर्णवस्त्रम् ॥ ४० ॥

मद्यप्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।
कामक्रोधाभिभूतश्च यस्यार्योऽनुमते गतः ॥ ४१ ॥
मा स्म धर्मे मनो भूयात् अधर्मं स निषेवताम् ।
अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥ ४२ ॥
संचितान्यस्य वित्तानि विविधानि सहस्रशः ।
दस्युभिर्विप्रलुप्यन्तां यस्यार्योऽनुमते गतः ॥ ४३ ॥
उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते ।
तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः ॥ ४४ ॥

उभे सन्ध्य इति । अत्यन्तसंयोगे द्वितीया, उभयोः सन्धयोरित्यर्थः ॥ ४४ ॥

[१]यदग्नि[२]दायके पापं यत्पापं गुरुतल्पगे।
मित्रद्रोहे च यत् पापं तत्पापं प्रतिपद्यताम् ॥ ४५ ॥
[३]देवतानां पितॄणां च मातापित्रोस्तथैव च ।
मा स्म कार्षीत् स शुश्रूषां यस्यार्योऽनुमते गतः ॥ ४६ ॥


  1. अग्निदायके- गृहादिषु अग्निनिक्षेपके- गृहादिदाहक इति यावत् ।
  2. दाहके-ङ.
  3. देवतानां शुश्रूषा-अग्निहोत्रादिकर्मसंभृतैः आज्यचरुपुरोडाशादिभिः प्रीणनम् । पितॄणां तु
    उपरागादिषु मातापितृमरणतिथ्यादिषु च पूर्वोक्तैरन्यैस्तिलादिभिश्चाराधनम् ।
    पितृशुश्रूषयैव मातापितृशुश्रूषाग्रहणसंभवात् मातापित्रोरित्यत्र जीवतोरिति विवक्षितम्-गो