पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५ सर्गः]
155
मातः ! यदीष्टो मे रामप्रवासः स्यां तु पातकी


[१] गवां स्पृशतु पादेन, गुरून् परिवदेत च ।
मित्रैर्द्रुह्येत सोऽत्यर्थं यस्यार्योऽनुमते गतः ॥ ३१ ॥

 गवामिति । अङ्गामिति शेषः । परिवदेत- अपवदेत् । मित्रै द्रुह्येतेति । चतुर्थ्यर्थे तृतीया, मित्रद्रोहं कुर्यादिति यावत् ॥ ३१ ॥

विश्वासात् कथितं किञ्चित् परिवादं मिथः क्वचित् ।
[२] विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः ॥ ३२ ॥

 परिवादं -- कस्यचित्सुरापानादिदोषम् । मिथः - रहस्ये, 'मिथोऽन्योऽन्यरहस्ययोः' इति वैजयन्ती ॥ ३२ ॥

[३]अकर्ता चाकृतज्ञश्च [४][५] व्यक्तश्च निरपत्रपः ।
लोके भवतु विद्विष्टो यस्यार्योऽनुमते गतः ॥ ३३ ॥

 अकर्ता - प्रत्युपकाराकर्ता, अत एवाकृतज्ञः, अत एव त्यक्तः - सज्जनापरिगृहीतः, अत एव लोके विद्विष्टश्च भवतु ॥ ३३ ॥

[६] पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः ।
स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः ॥ ३४ ॥

 एको मृष्टमश्नात्विति । इतरेषूपोषितेष्विति शेषः ॥ ३४ ॥


  1. 'हन्तु पादेन' (२२) इत्यत्र हननमुक्तं, इह तु पादस्पर्शोऽपि पापहेतुरित्युच्यते - गो.
  2. बहुजनमध्ये प्रकटं - इति शेषः ।
  3. अकर्ता - प्रत्युपकारस्याकर्ता, अथापि अकृतश्च: ; आभ्यामेकं पापमुक्तम् । त्यक्तात्मा-सद्भिः परिहृतः, अथापि
    निरपत्रपः -- निर्लज्जः, अकृतप्रायश्चित्त इति यावत् ; इदमेकं पापम् - गो.
  4. त्यक्तात्मा-उद्बन्धनादिना व्यक्तदेह:-ती
  5. त्यक्तात्मा-ङ.
  6. पुत्रैर्दासैश्य-ङ.