पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
154
[अयोध्याकाण्ड:
भरतशपथः

हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले ।
मा स्म कार्षीत् [१]सतां धर्मं यस्यार्योऽनुमते गतः ॥ २७ ॥

 सतां धर्ममिति । अपराङ्मुखतया युद्धमित्यर्थः ॥ २७ ॥

उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता ।
[२] नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः ॥ २८ ॥

 धीमता आचार्येणेति शेषः । यस्सुदुष्टात्मा नाशयति: तथा तस्य मे आत्मा नाशयतु-ब्रह्मोज्झसं पापं प्राप्नोत्वित्यर्थः ॥ २८ ॥

+मा च तं दृढबाह्वंसं चन्द्रभास्करतेजसम् ।
द्राक्षीत् राज्यस्थमासीनं यस्यार्योऽनुमते गतः ॥ २९ ॥

 दृढौ - विशालौ बाहू अंसौ च यस्य स तथा । राज्यस्थं- राज्यपदप्रतिष्ठितं, अत एव आसीनं-सिंहासनासीनं तं ज्येष्ठं रामं ममात्मा मा द्राक्षीत्-तज्ज्येष्ठानुवर्तनसुकृतं मां प्राप्नोतु ॥ २९ ॥

पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः ।
गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः ॥ ३० ॥

 कृसरं-तिलौदनम्। वृथा-श्राद्धादिनिमित्तं विना सः-मे आत्मा अश्नातु-तत्पापं प्राप्नोतु ॥ ३० ॥


  1. तादृशक्रूरयुद्धे शरणागतरक्षणं, इत्यादियुद्धधर्मं वा ।
  2. प्राप्ताऽपि तादृशी महाविद्या विफला भवत्वित्यर्थः ।