पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
144
[अयोध्याकाण्डः
कैकेयीविगर्हणम्


 अस्मासु- अस्मदीयामरेष्वित्यर्थः । कुतोनिमित्त इति । आद्यादित्वात् प्रथमान्तविहितस्य तसन्तस्य कुतश्शब्दस्य निमित्तशब्देन समानाधिकरणबहुव्रीहिः, किंनिमित्तक इत्यर्थः ॥ २० ॥

एवमुक्ता तु [१] सुरभिः सुरराजेन धीमता ।
प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा ॥ २१ ॥
[२]शान्तं पापं, न वः किञ्चित् कुतश्चिदमराधिप !
अहं तु [३] [४] मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ ॥ २२ ॥

 हे अमराधिप ! वः-युष्माकममराणां सम्बन्धी मे किञ्चित् पापं- दुःखमिति यत्, तत् शान्तम्, प्रसङ्गो न कर्तव्यः । 'शान्तं पापम् ', 'प्रतिहतममङ्गलम्' इत्यादिकमनुचितप्रसङ्गश्रवणदोषनिवर्तकवचनविशेषः । तत् कुतश्चिदप्यमरान्मे पापं न । किन्त्वहं मग्नौ- दुःखमग्नौ एवमुच्यमानविशेषणवन्तौ पुत्रौ दृष्ट्वा, तत एव हेतोः शोचामीत्यन्वयः ॥ २२ ॥

एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ।
[५] वध्यमानौ बलीवर्दौ कर्षकेण [६] दुरात्मना ॥ २३ ॥
मम कायात् [७] प्रसूतौ हि दुःखितौ भारपीडितौ ।
यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः ॥ २४ ॥

'यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः' इति कामधेनुवचनोपसंहारः ॥ २४ ॥


  1. सा देवी-ङ.
  2. नाश्लीलं कीर्तयेत्' इति निषिद्धाचरणजं पापं शान्तम् । अथवा अश्लीलश्रवणजं पापं शान्तम् ।
    अथवा उत्कीर्तितानिष्टप्रापकं पापं यदि स्यात्, तत् शान्तम् ।
  3. विषमे मग्नौ स्थितौ इति वाऽन्वयः ।
  4. किल-ङ.
  5. अर्द्यमानौ-ङ.
  6. सुराधिप-ङ.
  7. प्रसृतत्वं परंपरया-गो. ती.