पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४ सर्ग:]
145
अतोऽद्यैवानयिष्यामि वनाद्रामं कथञ्चन


यस्याः पुत्रसहस्रैस्तु कृत्स्नं व्याप्तमिदं जगत् ।
तां दृष्ट्वा रुदतीं शक्रो न सुतान्मन्यते परम् ॥ २५ ॥

 अथेन्द्रव्यापारं कविराह - यस्या इत्यादि । पुत्र सहस्रैरिति । साक्षात्पुत्रधर्माधर्मबलीवर्दसन्तानपतितैरित्यर्थः । तां रुदतीं दृष्ट्वा शक्रोऽपि न सुतात् परं प्रियमस्तीति मन्यते स्म ॥ २५ ॥

[१] इन्द्रो ह्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम् ।
सुरभिं मन्यते दृष्ट्वा भूयसीं तामिहेश्वरः ॥ २६ ॥

 इन्द्रः स्वगात्रे तं पुण्यगन्धिनं अश्रुनिपातं दृष्ट्वा तां सुरभिं भूयसीं मन्यते -बहुमन्यते स्म [२] ॥ २६ ॥

[३]समाप्रतिमवृत्तायाः लोकधारणकाम्यया ।
 [४]श्रीमत्या [५]गुणमुख्यायाः स्वभाव[६]परिचेष्टया ॥ २७ ॥
यस्याः पुत्रसहस्राणि साऽपि शोचति कामधुक् ।
किं पुनर्या विना रामं कौसल्या [७]वर्तयिष्यति ॥ २८ ॥

 अतःपरं भरतवाक्यं प्रकृतयोजनशेषतया - समाप्रतिमेत्यादि । समं- सर्वप्राणिसमानुग्राहकं अतुलं सर्वोत्तमं वृत्तं - चरित्रं यस्याः सा तथा । श्रीमत्याः–इष्टदोहनैश्वर्यशक्तिमत्याः गुणमुख्यायाः- गुणः मुख्यः सत्वात्मा यस्याः सा तथा । एवंभूतायाः तस्याः लोकधारणकाम्यया - लोकानुग्रहेच्छया प्रवृत्तायाः स्वभावपरिचेष्टया-'आहारनिद्रा- भयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम्' इति सामान्यप्राप्तमिथुनी-


  1. अयं श्लोकः ङ. पुस्तके नास्ति.
  2. तदीयवात्सल्यं दृष्ट्वेति भावः ।
  3. सदा-ङ.
  4. गुणनित्यायाः -- नित्यगुणाया: यस्या: सुरभे: स्वभावपरिवेषया--स्वभावेन स्त्रीपुंस्वभावेन मैथुनेन परिवेष:-आवृत्तिः यस्या:- गो. अत्र
    'लोकधारणकाम्यया श्रीमत्या: ' इति यथाश्रुतमेव वाऽन्वयः ।
  5. गुणनित्याया:-ङ.
  6. परिवेषया-ङ.
  7. विनशिष्यति-ङ.