पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४ सर्ग:]
143
कथं नु जीवेत् कौसल्या प्रियमेकं सुतं विना


 पुत्रशोको मातुः दुस्सह इत्यत्र इतिहासमाह - अन्यदेत्यादि । धर्मज्ञाः- पुराविदो वृद्धाः अन्यदा - अन्यस्मिन् कस्मिंश्चित्पूर्वकाले, किलेत्यैतिह्ये ; तथा वदन्ति किलेत्यर्थः । कथं वदन्ति ? इत्यतः - वहमानौ–हलं शकटं वा ॥ १५ ॥

तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले ।
रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ॥ १६ ॥

 अर्ध दिवसस्य- अर्धदिवसे, एकदेशीसमासः, मध्याह्न इति यावत् । पुत्रौ - साक्षात्पुत्रौ, किञ्चिन्निमित्ततो भुवं गतौ, तथाऽग्रे वदति ' मम कायात् प्रसूतौ' इति ॥ १६ ॥

अधस्तात् व्रजतस्तस्याः सुरराज्ञो महात्मनः ।
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥ १७ ॥

 सुरराज्ञः-सुरराजस्येति यावत् ॥ १७ ॥

निरीक्षमाणस्तां शक्रः ददर्श सुरभिं स्थिताम् । [१] आकाशे [२] विष्ठितां दीनां रुदतीं भृशदुःखिताम् ॥ १८ ॥ तां दृष्ट्वा शोक[३]सन्तप्तां वज्रपाणिर्यशस्विनीम् । इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः ॥ १९ ॥ [४] भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् । कुतोनिमित्तः शोकस्ते ब्रूहि, [५]सर्वहितैषिणि ! ॥ २० ॥


  1. आकाशेऽधिष्ठितां - ङ.
  2. विष्ठितां-निश्चलं स्थिताम् ।
  3. सन्तप्तः-ङ.
  4. प्रायशस्त्वदश्रुमोचनस्य भयसूचकत्वादिति भावः - गो. अत्र तीर्थ- गोविन्दराजदृष्ट्या भयं देवसम्बन्ध्यभिमतम् । कतकदृष्ट्या तु उत्तरश्लोकव्याख्यानुसारेण देवानामन्यतमात् सुरभेरेव भयं अभिमतम् ।
  5. सर्वं-ङ.