एतत् पृष्ठम् परिष्कृतम् अस्ति
७३ सर्ग:]
133
किं नु कार्यं कृतं मोहात् गर्हितं कुरूपांसिनि !
तस्याः पुत्रं [१]कृतात्मानं चीरवल्कलवाससम् ।
प्रस्थाप्य वनवासाय कथं, पापे ! न शोचसि ? ॥ ११ ॥
चीरपर्यायं वल्कलं-वासः यस्य स तथा ॥ ११ ॥
प्रव्राज्येति । किन्नु कारणं दृष्ट्वा चीरवसनं रामं प्रव्राज्य, ततश्च किं फलं पश्यसि ? ॥ १२ ॥
लुब्धायास्ते- लुब्धया त्वया अहं राघवं-रामं प्रति किंभाव इति न विदित इति मन्ये । तथा हि-तस्मादेव हि मम राज्यार्थं महानयमनर्थः-पितृनाशराज्यार्हज्येष्ठविवासनादिरूपः आनीतः - संपादितः ॥
अहं हि पुरुषव्याघ्रौ अपश्यन् रामलक्ष्मणौ ।
केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥ १४ ॥
उक्तानर्थमात्रमेव त्वद्दुश्चेष्टाफलम्, न तु त्वन्मनीषितकरणमित्याह – अहं हीत्यादि । भ्रातृसंपत्तिरेव मे शक्तिः । ततश्च तदभावे कथमहं राज्यं रक्षितुमुत्सहे ? न कथमपीत्यर्थः ॥ १४ ॥