पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
134
[ अयोध्याकाण्ड:
भरतसन्तापः


[१] तं हि नित्यं महाराजः बलवन्तं [२] महाबलः ।
[३]अपाश्रितोऽभूद्धर्मात्मा [४] मेरुर्मेरुवनं यथा ॥ १५ ॥

 न केवलं ममैव रामशक्त्यपेक्षा, अपि तु पितुरपीत्याह- तं हीत्यादि । राजाऽपि महाबलः, रामोऽपि महाबलः, अथापि — मेरुवनं, कर्तृ, मेरुमिव पुरुषमेरुं रामं इहामुत्रार्थमपाश्रित इत्यर्थः ॥ १५ ॥

सोऽहं कथमिमं भारं महाधुर्य[५]समुद्यतम् ।
[६] दम्यो धुरमिवासाद्य [७].वहेयं केन [८]तेजसा ? ॥ १६ ॥

 सोऽहमिति । ज्येष्ठरामैकबल इत्यर्थः । भारं- राज्यभारं अहमासाद्य महाधुर्य:- महाबलीवर्द:, धुरं वहतीति, 'धुरो यढ्ढकौ' इति यत्, तेन समुद्यतं - घृतं राज्यभारं अहमासाद्य दम्यः - दमनीयः, 'पोरुपधात्' इति यत्, तरुणवत्सः धुरं-महाबलीवर्दात् धृतभारमिव केन तेजसा -बलेन वहेयम् ! न केनापि ॥ १६ ॥

अथ वा मे भवेच्छक्तिः [९] योगैर्बुद्धिबलेन वा ।
सकामां न करिष्यामि त्वामहं [१०] पुत्रगर्धिनीम् ॥ १७ ॥

 तर्हि त्वं न राजपुत्रः षण्डकल्प इत्याशङ्कायामाह-अथवेत्यादि । शक्ति:-राज्यभरणसामर्थ्यम् । 'योगः सन्नहनोपायध्यान- सङ्गतियुक्तिषु', उक्तसर्वार्थ कैङ्कर्ययोगैरुत्पन्नेन बुद्धिबलेन – बुद्धियुक्त महाप्राणत्वलक्षणबलेन शक्तिर्यद्यपि भवेत् - संभावितैव; अथापि


  1. अयोध्याकाण्डीयप्रथमद्वितीयसर्गयोरयमंशः सूचितः ।
  2. महौजसम्-ङ.
  3. उपाश्रितो- ङ.
  4. दुर्गेण वनेनावृतत्वादेव मेरो: दुर्गत्वं इति भावः ।
  5. समुद्धृतम्-ङ.
  6. 'दम्यवत्सतरौ समौ' इति अमरः ।
  7. सहेयं-ङ
  8. वौजसा - ङ.
  9. योगै:-साम-दानाद्युपायैः, बुद्धिबलेन-ग्रहणधारणाद्यष्टाङ्गयुक्तबुद्धिबलेन वा-गो. ती.
  10. धर्माधर्मादिकमविमृश्य केवलपुत्राभिमानवतीमिति भावः ।