पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
132
[अयोध्याकाण्डः
भरतसन्तापः


विनाशितो महाराजः पिता मे धर्मवत्सलः ।
[१]कस्मात् प्रव्राजितो रामः कस्मादेव वनं गतः १ ॥ ७ ॥

कस्मादिति । निर्हेतुतः, निष्प्रयोजनत एव चेत्यर्थः ॥ ७ ॥

कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते ।
दुष्करं यदि जीवेतां [२] प्राप्य त्वां जननीं मम ॥ ८ ॥

 न केवलं पितृभ्रातृपीडा, अपि तु मात्रोरपीत्याह – कौसल्येत्यादि । मम जननीं त्वां मृत्युहेतुं प्राप्य यदि जीवेतां, तदपि दुष्करं- दुर्लभमेव । एवं च तयोः मृतिः, मुमूर्षा वेति न जान इत्यर्थः ॥ ८ ॥

ननु त्वार्योऽपि धर्मात्मा त्वयि [३]वृत्तिमनुत्तमाम् ।
वर्तते गुरुवृत्तिज्ञः [४] यथा मातरि वर्तते ॥ ९ ॥

 ’कस्मात् प्रव्राजितः ?' इति प्रागुक्तं प्रव्राजनकारणमेव प्रतिपाद्यते - ननु त्वित्यादि । गुरुषु-मातापित्रादिषु वर्तनीयां वृत्तिं जानातीति तथा ॥ ९॥

[५]यथा ज्येष्ठा हि मे माता कौसल्या [६] दीर्घदर्शिनी ।
त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते ॥ १० ॥

 अथ राममात्राऽपि न कश्चिदपराधस्त्वयि कृत इत्याह- यथेत्यादि । यथा भगिन्यां तथा त्वयि वर्तते पतिचित्तानुवर्तनरूपं धर्मं समास्थाय ॥ १०॥


  1. इयमपि लोकोक्तिः । सर्वं विफलमिति भावः ।
  2. इयमपि लोकोक्ति: ।
  3. वृत्तमनुत्तमम्-ङ.
  4. यथा मातरि कौसल्यायां वर्तते, तथैव त्वयि उत्तमां वृत्तिं वर्तते- अनुतिष्ठति ।
  5. तथा-ङ.
  6. पतिवाल्लभ्यात् भवत्या अनर्थो भविष्यतीति तर्कयन्ती ।