पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
122
[अयोध्याकाण्डः
कैकेयीदर्शनम्

 वनं- प्रागुक्ताश्वादिरूपम् । राजा-मातामहो मातुलश्च । तत्सर्वं पथि परिश्रान्तमभवत् । अतस्तत्सर्वं शनैरागमनाय नियुज्याहं पूर्वमागतः ॥ ९ ॥

राजवाक्यहरैर्दूतैः त्वर्यमाणोऽहमागतः ।
यदहं प्रष्टुमिच्छामि तदम्बा [१] वक्तुमर्हति ॥ १० ॥
शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः ।
न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मा ॥ ११ ॥

 शून्य इति । पितृशून्य इति यावत् ॥ ११ ॥

[२]राजा भवति भूयिष्ठं इहाम्बाया निवेशने ।
तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः ॥ १२ ॥

 द्रष्टुमिच्छन्निहागत इति, प्रायेणेह तस्यावस्थानात् ॥ १२ ॥

पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः ।
आहो स्वित्, अम्ब ! ज्येष्ठायाः कौसल्याया निवेशने ॥
तं प्रत्युवाच कैकेयी प्रियवद्धोरमप्रियम् ।
 अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ॥ १४ ॥

अजानन्तमिति । राजवृत्तान्तमिति शेषः । प्रियवत्प्रजानन्तीति योजना । तत्र हेतु:- राज्यलोभेन मोहितेति ॥ १४ ॥


  1. वक्तुमर्हसि-ङ.
  2. दशरथस्य बहुपत्नीत्वात् 'शून्योऽयं शयनीयः' इति प्रश्नः कथमिति शङ्कायामाह- राजेति ।