पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२ सर्ग:]
123
अवोचत् साऽपि पितरं वृत्तं तस्मै भयं विना


[१] या गतिः सर्वभूतानां तां गतिं ते पिता गतः ।
राजा महात्मा तेजस्वी यायजूकः [२][३] सतांगतिः ॥ १५ ॥
तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवान् शुचिः ।
पपात सहसा भूमौ पितृशोकबलार्दितः ।। १६ ।।
हा हतोऽस्मीति [४] कृपणां दीनां वाचमुदीरयन् ।
निपपात महाबाहुः बाहू विक्षिप्य वीर्यवान् ॥ १७ ॥
ततः शोकेन [५] संवीतः पितुर्मरणदुःखितः ।
विललाप महातेजाः भ्रान्ताकुलितचेतनः ॥ १८ ॥

 शोकेन संवीत:- आवृतचित्तः । भ्रान्ता - अनवस्थिता आकुलिता-खिन्ना चेतना यस्य स तथा ॥ १८ ॥

एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा ।
शशिनेवामलं रात्रौ गगनं तोयदात्यये ॥ १९ ॥
तदिदं न विभात्यद्य विहीनं तेन धीमता ।
व्योमेव शशिना हीनं [६] अप्शुष्कमिव सागरम् ॥ २० ॥

 विललापेत्युक्तं; तदेव प्रदर्श्यते - एतदित्यादि । पुरा भाति स्म, तदिदमिति योजना । अप्शुष्कं-आपः शुष्का यस्मिन् कालेऽग्न्यादिना तत्तथा । सागरमिति । सागरस्वरूपमित्यर्थः ॥ २० ॥


  1. अतिवाला कैकेयी स्वस्य वैधव्यं सदा प्रतीक्षितवती यतः, यतश्च स्वपुत्रराज्याभिषेकव वनपूर्वकमेव दशरथं परिणीतवती, अतः दशरथमरणं तस्या न तावद्दुस्सहमासीत् । अतः तद्वृत्तान्तं साधारणदृष्ट्या वदति ।
  2. सतांगतिरिति बहुव्रीहिः ।
  3. सतां पति:-- ङ.
  4. कृपणं-ङ.
  5. संविग्नः-ङ.
  6. उच्छुष्क-ङ.