पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२ सर्ग:]
121
अपृच्छज्जननीं तातं स्वाह्वाने कारणं च सः

सा तं मूर्धन्युपाघ्राय परिष्वज्य यशस्विनम् ।
अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ॥ ४ ॥
अद्य ते कतिचिद्रात्र्यः च्युतस्यार्यकवेश्मनः ।
अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥ ५ ॥

 आर्यकवेश्मनः –मातामहवेश्मनः प्राप्तस्वगृहस्य ते, याः कतिचित् रात्र्यस्तु च्युताः- गताः मार्गे, तामेव वक्तुमर्हसीत्यग्रेण सम्बन्धः । अथ रथेन शीघ्रमापततो योऽपि वाऽध्वश्रमः, तं मे ब्रूहि ॥

आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव ?
प्रवासाच्च सुखं, पुत्र ! सर्वं मे वक्तुमर्हसि ॥ ६ ॥

 आर्यक:-मातामहः कुशली वा ? न वा ? तथा तव मातुलो युधाजिच्च कुशली ! न वा ? तथा इतः प्रवासादारभ्य मातुलगृहे सुखमस्ति ? न वा ? इत्येतत्सर्वं वक्तुमर्हसि ॥ ६ ॥

एवं पृष्टस्तु कैकेय्या प्रियं पार्थिवनन्दनः ।
[१]आचष्ट भरतस्सर्वं मात्रे राजीवलोचनः ॥ ७॥
[२]अद्य मे सप्तमी रात्रिः च्युतस्यार्यकवेश्मनः ।
अम्बायाः कुशली तातः युधाजिन्मातुलश्च मे ॥ ८ ॥
यन्मे धनं च रत्नं च ददौ राजा परंतपः ।
[३]परिश्रान्तं पथ्यभवत् ततोऽहं पूर्वमागतः ॥ ९ ॥



  1. आचष्टे-ङ.
  2. अद्य रात्रि:- अस्मादह्नः पूर्वरात्रि: सप्तमी; अत: 'सप्तरात्रोषितः पथि '
    इत्यनेन न विरोध:-गो. वस्तुतस्तु - लोकरीत्या अद्य सप्तमी रात्रिः अतीतेत्येवार्थः ।
    ’अरुणोदये ' (७१-१६) इति प्रातरेव नगरप्रवेशस्योक्तत्वात् ।
  3. परिश्रान्तं- परिश्रान्तवाहनम् - गो.