पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
120
[अयोध्याकाण्ड:
कैकेयीदर्शनम्


बहूनि पश्यन् मनसोऽप्रियाणि
यान्यन्यदा नास्य पुरे बभूवुः ।
अवाक्छिरा दीनमना [१] नहृष्ट:
पितुर्महात्मा प्रविवेश वेश्म ॥ ४४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकसप्ततितमः सर्गः


 यान्यन्यदेति । राजसुखजीवन इत्यर्थः । अस्य पुर इति । राज्ञः पुर इत्यर्थः । भाव (४४)मानः सर्गः ॥ ४४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकसप्ततितमः सर्गः


द्विसप्ततितमः सर्गः
[ कैकेयीदर्शनम् ]

अपश्यंस्तु ततस्तत्र पितरं पितुरालये ।
जगाम भरतो द्रष्टुं मातरं मातुरालये ॥ १ ॥

 अथ राजगृहप्रविष्टेन भरतेन मातृमुखात् सर्ववृत्तान्तश्रवणम् । अपश्यन्नित्यादि ॥ १ ॥

अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् ।
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम् ॥ २ ॥
स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् ।
भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ॥ ३ ॥

स्वगृहमिति । [२] मातृगृहमिति यावत् ॥ ३ ॥


  1. नञ्समानार्थकमव्ययमिदम् ॥
  2. ’मातरं मातुरालये' इत्यनुपदमेवोक्तत्वात् । भरतस्य तत्रैव संवर्धितत्वात् स्वगृहमित्युक्तम् ।