पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१ सर्गः]
113
भरतः त्वरयाऽऽगच्छन् प्रापायोध्यां निरुत्सुकाम्


तोरणं दक्षिणार्धेन जम्बुप्रस्थमुपागमत् ।
वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ॥ ११ ॥

 तोरणं – तद्ग्रामस्य दक्षिणार्धेन – दक्षिणभागेन जम्बूपस्थं ग्राममुपागमत् । वरूथं- वरूथाख्यम् ॥ ११ ॥

[१] तत्र रम्ये वने [२] वासं कृत्वाऽसौ प्राङ्मुखो ययौ ।
उद्यानमुज्जिहीनायाः प्रियका यत्र पादपाः ॥ १२ ॥

 उज्जिहीनाया नगर्याः । यत्र-- उद्याने | प्रियका:---असनाः ॥ १२ ॥

[३][४]सालांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः ।
[५] अनुज्ञाप्याथ भरतः वाहिनीं त्वरितो ययौ ॥ १३ ॥

 प्रियकान् सालान्-प्रियकवृक्षान्, 'अनोकहः कुटः सालः ' । शीघ्रान् वाजिनः रथे आस्थाय- -संयोज्य । एवं व्याख्या तु 'रथे सारथिमब्रवीत्' इति वक्ष्यमाणत्वात् । अनुज्ञाप्य वाहिनीमिति । उज्जिहानाया अर्वाक् स्वदेशत्वान्निर्भयतः शनैरागम्यतामिति अनुज्ञाप्य स्वयं त्वरितो ययौ ॥ १३ ॥

[६]वासं कृत्वा सर्वतीर्थे तीर्त्वा [७]चोत्तानिकां नदीम् ।
अन्या नदीश्च विविधाः [८]पार्वतीयैस्तुरङ्गमैः [९] ॥ १४ ॥


  1. एतदारभ्य अर्धत्रयं नास्ति-झ.
  2. अत्राप्येकरात्रिवासः विवक्षितः । गोविन्दराजीयेऽप्येवमेव ।
  3. सालान्-वृक्षान्, 'अनोकहः कुटः सालः ' इत्यमरः, पूर्वोक्तवनस्थान् प्रियकवृक्षान् प्राप्य - गो.
  4. स तांस्तु-ङ. च.
  5. अनन्तरसर्गस्य ९ श्लोको द्रष्टव्यः ।
  6. अत्राप्येकरात्रिवासः विवक्षितः ।
  7. चोत्तरंगां-ङ. च.
  8. पर्वत-देशोत्पन्नैः, - तीर्त्वेत्यनुषङ्गः-गो. पर्वतोत्पन्नैः-ती.
  9. एनदनन्तरं - इस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत। ततार च नरव्याघ्रः लौहित्ये स
    कपीवतीम्-इत्यधिकं - ङ.