पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
112
[अयोध्याकाण्ड:
अयोध्याप्रवेशः

शीतीकृत्य तु गात्राणि [१]समाश्वास्य च वाजिनः ।
तत्र स्नात्वा च पीत्वा च [२] प्रायादादाय चोदकम् ॥ ७ ॥

 शीतीकृत्येति । स्नानपानादिनेति शेषः । समाश्वास्येति । छायायां घासदानेनेति शेषः । उदकमादायेति । तीर्थबुद्ध्येति शेषः ॥

राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् ।
भद्रो भद्रेण यानेन [३] [४] मेरुप्रख्यमथात्ययात् ॥ ८ ॥

 अनभीक्ष्णोपसेवितं - मुहुरसंचरितम् । भद्रेण–प्रशस्तेन रथेनेति यावत् । मेरुप्रख्यं - देशम् ॥ ८ ॥

[५] भागीरथीं दुष्प्रतरां [६]अशुंधाने महानदीम् ।
[७] अपश्यद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे ॥ ९ ॥

 अशुन्धाने ग्रामे महानदीं गङ्गामपश्यत् ॥ ९ ॥

[८]स ततः प्राग्वटे तीर्त्वा समायात् कुटिकोष्ठिकाम् ।
सबलस्तां स तीर्त्वाऽथ समायाद्धर्मवर्धनम् ॥ १० ॥

 ततः प्राग्वटे पुरे गङ्गां तीर्त्वा । कुटिकोष्ठिकां नदीम् । धर्मवर्धनं ग्रामम् ॥ १० ॥


  1. क्लान्तानाश्वास्य-ङ.
  2. उत्तरत्र गन्तव्यदेशस्य निर्जलदेशत्वात् तत्र पानार्धमुदकमादाय च प्रायात्-गो.
    --अत्र समाश्वास्येत्यादिना एकरात्रिवासः प्रतीयते ।
  3. 'मारुतः खमिवात्ययात्' इति पाठे, भद्रयानविशिष्टत्वेन तादृशदुर्गमारण्यमपि सुलभेनात्ययादित्यर्थे स दृष्टान्तः ।
  4. मारुत: खमिवात्ययात्- ङ. च.
  5. अशुन्धाने नगरे दुष्प्रतरां भागीरथीं विश्रुते-तरणस्थलत्वेन प्रसिद्धे प्राग्वटे पुरे उपायात्-आगच्छत् तत्तरणार्थमिति शेष:- गो. अंशुधाने-अंशुधानाख्यदेशे प्राग्वटपुरे-ती.
  6. अंशुधाने-ङ. च.
  7. उपाया- ङ. च.
  8. स गङ्गां-ङ.