पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१ सर्गः ]
111
शत्रुघ्नोऽपि तदा तेन सहायोध्यां विनिर्ययो


 ऐलाधानीं -तदाख्याम् । अपरपर्पटान् जनपदविशेषान् अन्वर्थनामकान् । शिलां- शिलानदीम् । आकुर्वतीं नदीं। आकुर्वत्या आग्नेयदिग्गतं शल्यकर्तनं - तदोषध्युपेतं देशम् । शिलावहा च नदी । महाशैलानतीत्य चैत्ररथाख्यं वनं प्रति अयादिति सम्बन्धः ॥ ४ ॥

सरस्वतीं च [१] गङ्गां च युग्मेन प्रत्यपद्यत ।
[२] [३]उत्तरान् वीरमत्स्यांश्च भारुण्डं प्राविशद्वनम् ॥ ५ ॥

 सरस्वतीं गङ्गां - 'सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी । तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ' इत्युक्तः पश्चिमगङ्गाप्रवाहात्मा सिन्धुरेव गङ्गेत्युच्यते, यत्र ते द्वे युग्मे मिलिते तत्र ते प्रतिपद्य ततो वीरमत्स्यान् देशानुत्तरान् देशान्, ततो भारुण्डाख्यं वनं प्राविशत् ॥ ५ ॥

[४]वेगिनीं च कुलिङ्गाख्यां ह्लादिनीं पर्वतावृताम् ।
यमुनां प्राप्य संतीर्णः बलमाश्वासयत्तदा ॥ ६ ॥

 वेगिन्यादिविशेषणा कुलिङ्गाख्या या नदी, तां सन्तीर्णः, यमुनां प्राप्य बलमाश्वासयदिति योजना ॥ ६ ॥


  1. गङ्गां - सिन्धुं युग्मेन सङ्गमेन-ती. गङ्गाख्यां कांचिन्नदीं पश्चिमसमुद्रगामिनीं,
    गङ्गास्रोतोमेदं वा-युग्मेन-द्वन्द्वतया पार्श्वद्वये प्रवहन्तीमिति शेष:-गो. युग्मेन-दिनद्वयेनेति वा ।
  2. वीरमत्स्यानां – वीरमत्स्याख्यदेशानां उत्तरं भारुण्डं - गो. वीरमत्स्यानां उत्तरान्- उत्तरप्रदेशान्-ती. (प्राप्येति शेषः) ।
  3. उत्तरान् वीरमत्स्यानां -ङ, च. उत्तरं वीरमत्स्यानां-ङ.
  4. वेगिनीं–वेगयुक्तां, ह्लादिनीं— सन्तोषकारिणीं, पर्वतैरावृतां कुलिङ्गाख्यां नदीं यमुनां प्राप्य सन्तीर्णः यमुनासमीपे सन्तीर्णः इत्यर्थः; अन्यत्रातिवेगत्वात् अन्यत्र पर्वतावृतत्वाच्चेति भावः - गो.