पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
110
[अयोध्याकाण्ड:
अयोध्याप्रवेशः


 अथ निर्यातस्य भरतस्य निश्शोभनिजपुरप्रवेशः । स इत्यादि । सुदामां नदीं तीर्त्वा । एवमादिजनपदग्रामभेदानामिहोपदेशात् दूतमार्गीयाणां अनुपदेशाच्चेदं मार्गान्तरं चतुरङ्गबलगमनोचितम् | नेह कुरुजाङ्गलादिकष्टस्थलमस्ति । दूतास्तु ऋजुमेव केवलं दुर्गममप्याश्रित्य कान्तारमार्गं गताः द्राक् गिरिव्रजप्राप्तय इति ज्ञेयम् ॥

ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् ।
शतद्रुमतरच्छ्रीमान् नदीमिक्ष्वाकुनन्दनः ॥ २ ॥

 दूरे पारं- अपरं तीरं यस्याः सा तथा, तां ह्लादिनीं नदीं प्रत्यवस्रोतस्तरङ्गिणीं— पश्चिमप्रवाहनदीं शतद्र्वाख्याम् ॥ २ ॥

[१][२] 'ऐलाधानीं नदीं तीर्त्वा प्राप्य चापर[३]पर्पटान् ।
शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्य [४].कर्तनम् ॥ ३ ॥
सत्यसन्धः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् ।
अत्ययात् स महाशैलान् वनं चेत्ररथं प्रति ॥ ४ ॥


  1. एलधाने --एलधानग्रामे । अपरपर्पटान्– अपरपर्पटाख्यदेशविशेषान् । शिलामाकुर्वतीं- शिलामासमन्तात् कुर्वती, शिलाकर्षणस्वभावामित्यर्थः, नदीम् । आग्नेयं शस्यकर्तनमिति ग्रामद्वयम् । शिलावहां संप्रेक्षमाणः चैत्ररथं नाम वनं लक्षीकृत्य
    महाशैलानत्ययात् --ती. एलानां-एलकानां आधानं- उत्पत्तिस्थानं, तद्वत्वादेलाधानाख्ये नगरे नदीं--पूर्वोक्तां शतद्रुं-तीर्त्वेत्यनुवाद: ।
    अपरपर्पटानू--पर्पटानामदूरभवो ग्रामः पर्पटः, पर्पटाः-ओषधिविशेषाः………पूर्वपर्पटा अपरपर्पटाश्चेति ग्रामद्वयमस्ति; तत्रापरपर्पटान् विश्रान्त्यर्थं प्राप्य, शिलामाकुर्वतीं-शिलाकर्षणस्वभावां अत एव शिलावहामित्यन्वर्थसंज्ञां नदीं तीर्त्वा, तस्या आग्नेय्यां दिशि भवं आग्नेयं,
    शल्यकर्तनं नाम नगरं प्रेक्षमाणस्सन् अत्ययात्- गो.
  2. उपधानें- एकाधाने- ङ. ऐलधाने-ङ. च.
  3. पर्वतान्-ङ.
  4. कर्षणम्-ङ