पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१ सर्ग:]
109
स मातामहमापृच्छ्य प्रतस्थे भरतो द्रुतम्


 स इति । एवं सभायां संप्राप्तनियोगजीवाजीवधनबलोपेतः स्ववेश्म व्यतिक्रम्येति । यात्रापरिकरसन्नाहाय स्ववेश्माभिगम्य कृतसन्नाहः स्ववेश्मनो निर्गत्य राजमार्गं प्रपेदे 'सुमहच्छ्रीमान् ’ इत्येकं पदम् । पुंवद्भावानन्तरं मतुप् ॥ २७ ॥

स मातामहमापृच्छ्य मातुलं च युधाजितम् ।
रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥ २८ ॥
बलेन गुप्तो भरतो महात्मा
[१]सहार्यकस्यात्मसमैरमात्यैः ।
आदाय शत्रुघ्नमपेतशत्रुः
गृहाद्ययौ सिद्ध इवेन्द्रलोकात् ।। ३० ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्ततितमः सर्गः



 बलेन-स्वीयेन मातुलीयेन च । भार्यया सहितः सभार्यकः काल (३१) मानः : सर्गः ॥ ३० ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्ततितमः सर्गः

एकसप्ततितमः सर्गः
[अयोध्याप्रवेशः]

स प्राङ्मुखो राजगृहात् अभिनिर्याय राघवः
ततः सुदामां द्युतिमान् [२]संतीर्यावेक्ष्य तां नदीम् ॥ १ ॥


  1. आर्यकस्य - मातामहस्य - गो
  2. नदीमवेक्ष्य तां संतीर्य - गो.