पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
114
[अयोध्याकाण्ड:
अयोध्याप्रवेश:


 सर्वतीर्थे ग्रामे। अत्रैकं प्रक्षिप्तं श्लोकं [१] परो व्याकरोत् ॥ १४ ॥

एकसाले स्थाणुमतीं विनते गोमतीं नदीम् [२]
कालिङ्गनगरे चापि प्राप्य सालवनं तथा ॥ १५ ॥
[३]भरतः क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः ।
[४] वनं च समतीत्याशु [५] शर्वर्यामरुणोदये ॥ १६ ॥
अयोध्यां मनुना राज्ञा निर्मितां संददर्श ह ।
तां पुरीं पुरुषव्याघ्रः [६] सप्तरात्रोषितः पथि ॥ १७ ॥
अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत् ।
एषा नाति [७]प्रतीता मे पुण्योद्याना यशस्विनी ॥ १८ ॥
अयोध्या दृश्यते दूरात्, सारथे ! पाण्डुमृत्तिका ।

 नातिप्रतीता-नातिप्रकाशा, 'सुप्सुपा ' इति समासः नञापि भवति । पाण्डुमृत्तिकेति । सुषाधवलेति यावत् ॥ १८ ॥


  1. महेश्वरतीर्थः, गोविन्दराजो वा । श्लोकश्चाधस्तात् पूर्वपुटे दत्तः । 'हस्तिपृष्ठवदुन्नतत्वात् हस्तिपृष्ठकाख्यं ग्राममासाद्य कुटिकां नदीमत्यवर्तत - हस्तिष्पृष्ठकसमीपे कुटिकामतरदित्यर्थः । लौहिये - लौहितमृत्त्वात् लौहित्यनाम्नि नगरे कपीवतीं ---बहुरूपिमत्त्वात्तन्नाम्नीं नदीम्' -गो. हस्तिष्पृष्ठकमासाद्य-गजपृष्ठमारुह्य कुटिकामत्यवर्तत-ती. इत: गजेन यानमेव तीर्थेन समर्थ्यते । परन्तु उत्तरत्र सारथिं प्रति भरतवचनदर्शनात् इदं चिन्तनीयम् ।
  2. एतदनन्तरं --व्यपायाद्राघवस्तूर्णं तीर्त्वा शोणां महानदीम्-इत्यधिके - ड.
  3. इदमर्धं नास्ति-झ.
  4. वनं – सालवनम् ।
  5. अनेन इतररात्रिवत् नोषितवान्, नगरस्य सन्निहितत्वात् अविश्रम्य रात्रावपि प्रयाणं कृतवानिति गम्यते । अत एव 'सुपरिश्रान्तवाहनः इत्युक्तम् ।
  6. दूतैः विषयनिवेदनानन्तरं सपरिवारस्य भरतस्य प्रयाणसन्नाहेन तद्दिनाधिकांशः क्षपितः स्यादेव । अतश्च 'युग्मेन' (५) इति पूर्णदिनद्वयं कथितम् । तेन च रात्रित्रयनिवृत्तिः कथिता । चतुर्थी रात्रिः ६-७ श्लोकयोः, पञ्चमी १२ श्लोके, षष्ठी १४ श्लोके, सप्तमी व रात्रिः २६ श्लोके च कथितेति भाति 1
  7. प्रतीता--सन्तुष्टा-गो.