भरतश्चापि तान् दूतान् [१] एवमुक्तोऽभ्यभाषत ।
आपृच्छेऽहं महाराजं दूतास्सन्त्वरयन्ति माम् ॥ १३ ॥
दूता मां सन्त्वरयन्ति, अतो गच्छेयमिति महाराजं आपृच्छेऽहमिति दूतान् प्रत्यभाषत ॥ १३ ॥
एवमुक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः ।
दूतैस्सञ्चोदितो वाक्यं मातामहमुवाच ह ॥ १४ ॥
दूतैस्सञ्चोदित इति । 'तर्हि शीघ्रमापृच्छ' इत्येवमात्मना प्रेरित इत्यर्थः ॥ १४ ॥
राजन् ! पितुर्गमिष्यामि सकाशं दूतचोदितः ।
पुनरप्यहमेष्यामि [२] यावन्मे त्वं स्मरिष्यसि ॥ १५ ॥
यावत्- यदा मे स्मरिष्यसि-मां स्मरिष्यसीति यावत्, 'अघीगर्थ' इति षष्ठी ॥ १५ ॥
भरतेनैवमुक्तस्तु नृपो मातामहस्तदा ।
तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ॥ १६ ॥
गच्छ तातानुजाने त्वां कैकेयीसुप्रजास्त्वया ।
मातरं कुशलं ब्रूयाः पितरं च, परन्तप ! ॥ १७ ॥
[३]कैकेयीसुप्रजा इत्यादि कौसल्यासुप्रजा इत्यादिवत् ॥ १७ ॥
पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः ।
तौ च, तात! महेष्वासौ भ्रातरौ रामलक्ष्मणौ [४]॥ १८ ॥
- ↑ एवमुक्त इति । दूतैरिति शेषः ॥
- ↑ यदा मे-ङ. च.
- ↑ कैकीयीसुप्रजा इति समस्तं पदमित्यभिप्रेत्यैवं व्याख्यातम् । व्याख्यानान्तरेषु तु एवं व्याख्याने 'त्वया' इत्यस्यानन्वयप्रसङ्गात्, त्वया कैकेयी सुप्रजा इति व्यासः कृतः । त्वयेतिस्थाने 'किल' इत्यादिपाठः स्याद्वाऽस्य व्याख्यातुः ।
- ↑ एतदनन्तरं इतिकरणं द्रष्टव्यम् ।