पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७० सर्गः]
105
शीघ्रमद्यैव निर्याहि त्वमयोध्यां नृपात्मज !


 स्वमातुः स्वभावानुवादपूर्वं तस्या आरोग्यं पृच्छति-[१]आत्मेत्यादि। आत्मप्रयोजनैकदृष्टिः- [२] आत्मकामा । प्राज्ञामात्माने मन्यत इति - प्राज्ञमानिनी, 'मनः' इति णिनिः, ‘क्यङ्मानिनोश्च' इति पुंवद्भावः ॥ १० ॥

एवमुक्तास्तु ते दूताः भरतेन महात्मना ।
ऊचुः [३] संप्रश्रितं वाक्यं इदं तं भरतं तदा ॥ ११ ॥

 संप्रश्रितमिति । सविनय – [४] संक्षिप्तमिति यावत् । विस्तरस्तु मिथ्यात्वतोऽशक्यवादः ॥ ११ ॥

कुशलास्ते, नरव्याघ्र ! येषां कुशलमिच्छसि ।
श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः ॥ १२ ॥

 हे नरव्याघ्र ! येषां त्वं कुशलमिच्छसि तेषां कुशलमेव । तर्हि मम त्वरयाऽऽह्वान किन्निमित्तं इति शङ्का न कर्तव्या त्वयाऽपि । [५]त्वामपि श्रीश्च वृणुते, [६] पद्मा-तल्लक्षणा, श्रीरेव त्वां वृणुते । अतस्तवाप्यागमनेन न किञ्चिदनिष्टम् । अतो निश्शङ्कतया यात्रायै रथो युज्यताम् ॥ १२ ॥


  1. दुस्स्वप्नदर्शनदूतागमनाभ्यां, स्वमातुस्स्वभावानुस्मरणेन च, कैकेय्या यत्किञ्चिदत्याचरितं भवेदिति भरतस्य शङ्का समजनीति सूचयति- आत्मकामेत्यादिना ॥
  2. आत्मन्येव कामः यस्याः सा तथा, स्वार्थैकपरेत्यर्थः ॥
  3. सप्रश्रयं-ङ.
  4. सविनयमूचुरित्यनेनानधिकभाषणमुक्तं, विनीता हि न बहु वदेयुः, इत्यभिप्रायेणोक्तं संक्षिप्तमिति ॥
  5. लक्ष्मीवरणोक्तिः अमङ्गलव्यावृत्यर्था, न तु राज्यश्रीप्राप्तिपरा; राजमरणादिकं न वक्तव्यमिति वसिष्ठेनोक्तत्वात् -ती. परन्तु स्वेषामनृतवदनपरिहाराय एवं अर्थद्वयगर्भं वाक्यमुक्तं स्यादिति ॥
  6. पद्महस्तेत्यर्थः । अर्श आद्यजन्तोऽयं शब्दः । श्रीरिति विशेष्यवाचकस्य प्रत्येकं सत्वादेवं व्याख्यातम् ॥