पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७० सर्गः]
107
अवश्यं च वसिष्ठस्त्वां अयोध्यायां प्रतीक्षते


तस्मै हस्त्युत्तमान् चित्रान् कम्बलानजिनानि च ।
[१]अभिसत्कृत्य कैकेयो भरताय धनं ददौ ॥ १९ ॥

 तस्मै भरतायेति योजना । चित्राजिनचित्रकम्बलानि तद्देशोत्तमवस्त्राणि ॥ १९ ॥

रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च ।
सत्कृत्य कैकयीपुत्रं केकयो धनमादिशत् ॥ २० ॥

 रुक्मनिष्कसहस्रे द्वे इति । द्विपपूर्वा इति यावत् । निष्कं-फलं, ‘उरोभूषणे पले, दीनारेऽपि ' इति, निष्कः-घनमिति, चित्राजिनाद्युक्तरूपमित्यर्थः ॥ २० ॥

तथाऽमात्यानभिप्रेतान् विश्वास्यांश्च गुणान्वितान् ।
ददावश्वपतिः क्षिप्रं भरतायानु[२]यायिनः ॥ २१ ॥

 [३]तथाऽमात्यानिति । स्वीयानिति शेषः । विश्वास्यान्- विश्वासनीयान्, ॠहलोर्ण्यत् । अश्वपतिः- केकयः तेषां कुलनामघेयम्, गजपत्यादिवत् ॥ २१ ॥

ऐरावतानैन्द्रशिरान् नागान् वै प्रियदर्शनान् ।
खरान् शीघ्रान् सुसंयुक्तान् मातुलोऽस्मै धनं ददौ ॥ २२ ॥

 इरावत्पर्वतभवाः [४] ऐरावताः, तथा इन्द्रशिरःपर्वतभवाः ऐन्द्रशिराः नागाः । न नामनि विप्रतिपत्तिरिति इन्द्रशिरेत्यकारान्तं प्रातिपदिकम् ॥ २२ ॥


  1. सत्कृत्य राजा-ङ.
  2. जीविनः-ङ.
  3. अमा-सह प्राणान् त्यजन्तीत्यमात्याः, तान्- गो. अङ्गरक्षकविशेषानिति भावः । सह इत्यर्थकं 'अमा' इत्यव्ययम् ॥
  4. ऐरावतकुलोद्भवान् वा-ति.