पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८ सर्गः ]
93
वसिष्ठोऽप्यादिशद्दूतान् आनेतुं भरतं द्रुतम्

यदसौ मातुलकुले [१]दत्तराज्यः पुरे सुखी ।
भरतो वसति भ्राता शत्रुघ्नेन [२]समन्वितः ॥ २ ॥
तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः ।
आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् ॥ ३ ॥

 यत्-यस्मात् राज्ञा कैकेयीवरेण भरतो दत्तराज्यः, यतश्चेदानीमसौ राजगृहाख्ये पुरे मातुलकुले वसति, तत्-तस्मात् तमानेतुं दूताः शीघ्रं गच्छन्तु । वयं किं समीक्षामहे - किं विचारयामः । राज्ञैव भरतराज्यस्य निश्चितत्वादिति शेषः ॥ २-३ ॥

गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन् ।

 वसिष्ठवाक्यमनुजानन्ति मन्त्रिणः- गच्छन्त्वित्यादि ।

तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् ॥ ४ ॥
[३] एहि, सिद्धार्थ ! विजय ! जयन्ताशोक[४]नन्दन !
श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः ॥ ५ ॥

 सिद्धार्थादयः चत्वारो दूताः । मन्त्रिव्यतिरिक्तोऽसौ सिद्धार्थः । इतिकर्तव्यमिति । गच्छद्भिर्युष्माभिरनुष्ठेयकृत्यजातमित्यर्थः ॥ ४-५ ॥


  1. पुरे, राजगृहे-ङ. दत्तराज्य: परं-च.
  2. मुदान्वितः- च.
  3. मन्त्रिव्यतिरिक्तनन्दनसहपाठात् नेमे मन्त्रिणः । 'पुरोहितस्त्वां कुशलं प्राह
    सर्वे च मन्त्रिण:' इति वक्ष्यमाणत्वाञ्च-गो. परन्तु प्रथमश्लोके अमात्यान् मंत्रिणश्चोवाच इति कथनात् मन्त्रिणामेव सतां दूतत्वमपि संभाव्येत । नन्दनस्यैकस्य तदा तस्सहगामितया पृथक् प्रेषणोपपत्तेश्च । अशोकस्य नन्दनः-पुत्रः इति वाऽर्थः । मन्त्रिपुत्रस्यापि प्राप्तवयस्कस्य मन्त्रित्वात् प्रेषणम्। साक्षात् राज्ञ एव आहूतव्यत्वात् मन्त्रिणामेव दौत्ये प्रेषणम् ।
  4. नाशन--ङ.