पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
92
[अयोध्याकाण्ड:
दूतप्रेषणम्


जीवत्यपि महाराजे तवैव वचनं वयम् ।
नातिक्रमामहे सर्वे वेलां प्राप्येव[१] सागरः [२] ॥ ३७॥
स नः समीक्ष्य, द्विजवर्य ! वृत्तं
नृपं विना राज्यमरण्यभूतम् ।
कुमारमिक्ष्वाकुसुतं [३] वरेण्यं
त्वमेव राजानमिहाभिषिञ्च ॥ ३८ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तषष्टितमः सर्गः


 हे द्विजवर्य ! स त्वं नः- अस्माकं वृतं- अराजकप्रमुषितं सर्वं कृत्यं वीक्ष्य, नृपं विना राज्यमप्यरण्यभूतं स्यादिति समीक्ष्य इक्ष्वाकुसुतं- दशरथतनयं वरेण्यं-श्रेष्ठं कुमारं त्वमेव राजानं निश्चित्य अभिषिञ्च। जल (३८) मानः सर्गः ॥ ३८ ॥

 इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे सप्तषष्टितमः सर्गः



अष्टषष्टितमः सर्गः
[दूतप्रेषणम् ]

तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह ।
[४]मित्रामात्य[५]
जनान् सर्वान् ब्राह्मणांस्तानिदं वचः ॥ १॥

 एवममात्यप्रार्थितवसिष्ठेन भरत एव राजेति निश्चित्य तदानयनाय दूतप्रेषणम् । तेषामित्यादि । मित्रामात्यजनाः सुमन्त्रादयः । ब्राह्मणाः मार्कण्डेयादयः प्रागुक्ताः ॥ १ ॥


  1. सागरा:-ङ.
  2. इदानीं तु किमु वक्तव्यमिति भावः
  3. वदान्यं - ङ, तथान्यं-च.
  4. मित्रभूता अमात्या: सुमन्त्रादयोऽष्टौ, ब्राह्मणा:-मन्त्रिणः वामदेवादयः - बालकाण्डे चतुर्थसर्गे उक्ताः ॥
  5. गणान्-ङ.