पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
94
[अयोध्याकाण्ड:
दूतप्रेषणम्


पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः ।
त्यक्तशोकैरिदं वाच्यः शासनात् भरतो मम ॥ ६ ॥

 मम शासनात् भरतो वाच्य इति ॥ ६ ॥

पुरोहितः त्वां कुशलं प्राह सर्वे च मन्त्रिणः |
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥ ७ ॥

 कथं वाच्य इत्यतः-पुरोहित इत्यादि । अत्ययः - -कालातिपातः तं प्राप्तं आत्ययिकं - 'विनयादिभ्यष्ठक्' इति टक्, तादृशं कृत्यमस्ति; अतः त्वरमाणो निर्याहीति वाच्यमित्यनुकर्षः ॥ ७ ॥

मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् ।
भवन्तः शंसिषुर्गत्वा राघवाणामिमं [१]क्षयम् ॥ ८ ॥

 मा शंसिषुरित्यन्वयः। राघवाणां इमं क्षयं-तेजः क्षयं स्त्रीमूलतया सुपुत्रवनवासादिलक्षणम् ॥ ८ ॥

कौशेयानि च वस्त्राणि भूषणानि वराणि च ।
क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ॥ ९ ॥
दत्तपथ्यशना दूताः जग्मुः स्वं स्वं निवेशनम् ।
[२]केकयांस्ते गमिष्यन्तः हयानारुह्य सम्मतान् ॥ १० ॥

 दत्तं पथ्यशनं- तदपेक्षितद्रव्यं येषां ते तथा । स्वं निवेशनं जग्मुः । स्त्रीबालादेः प्रयाणकथनाद्यर्थमिति शेषः ॥ १० ॥


  1. क्षयं-विपदम्
  2. केकयान्-गमिष्यन्तः स्वं स्वं निवेशनं जग्मुरित्यन्वयः ।