पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७ सर्ग:]
91
अतोऽभिषिञ्च यं कञ्चित् त्वमेवाद्य नृगत्मजम्


यथा [१] दृष्टिः शरीरस्य नित्यमेव प्रवर्तते ।
तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥ ३३ ॥

 शरीरस्य हिते दृष्टिः यथा नित्यमेव प्रवर्तते, एवं सत्यधर्मयोः [२]प्रभवः नरेन्द्रोऽपि राष्ट्रम्य हिते नित्यं प्रवर्तते ॥ ३३ ॥

राजा सत्यं च धर्मश्च [३] राजा कुलवतां कुलम् ।
राजा माता पिता चैव राजा हितकरो नृणाम् ॥ ३४ ॥

 कुलवतां-क्षेत्रबीजशुद्धिमतामिति यावत् ॥ ३४ ॥

यमो वैश्रवणः शक्रः वरुणश्च महाबलः ।
विशिष्यते नरेन्द्रेण वृत्तेन महता ततः ॥ ३५ ॥

 [४]यम इत्यादि । यतो महता वृत्तेन-अशेषप्रजारक्षणरूपेण महता चरित्रेण नरेन्द्रो युक्तः, तत एव हेतोः [५] एकैकदिग्वर्तिप्रजारक्षणेभ्यो [६] विशिष्यते-अतिशय्यते नरेन्द्रेण, यकि गुणश्छान्दसः ॥

अहो तम इवेदं स्यात् न प्रज्ञायेत किञ्चन ।
राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ॥ ३६॥

 अहो इत्यादि । साध्वसाधुनी लोके विभजन् राजा चेन्न स्यात्, इदं- अराजकत्वं अहो तम एव स्यात् ॥ ३६॥


  1. इदं हस्तपादादीनामप्युपलक्षकम् । चक्षुस्तु प्रधानम् । चक्षुरादिकं खलु
    शरीररक्षणे सदा स्वयमेव जागरूकं वर्तत इत्यनुभवसिद्धम् ।
  2. प्रभवः - कारणम् ।
  3. वर्णसांकर्यवारक इति वा ।
  4. यत-ग.
  5. यमस्य दण्डमात्रं, कुबेरस्य धनदत्वमेव, इन्द्रस्य पालनमेव, वरुणस्य सदाचारनियमनमेव । एतद्गुणचतुष्टययुक्तत्वान्नरेन्द्रेण यमादयोप्यावर्त्यन्त इत्यर्थः - गो.
  6. यमादयस्तु तत्तद्दिङ्मात्ररक्षकाः, राजा तु सर्वदिक्ष्वपि रक्षक इत्यर्थः ।