पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
50
[अयोध्याकाण्डः
अराजकदोषवर्णनम्


नाराजके जनपदे माल्यमोदकदक्षिणाः ।
देवताऽभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः ॥ २७ ॥

 कल्प्यन्ते-प्रवर्त्यन्त इति यावत् ॥ २७ ॥

नाराजके जनपदे चन्दनागरुरूपिताः ।
राजपुत्रा विराजन्ते [१]वसन्त इव शाखिनः ॥ २८ ॥
यथा ह्यनुदका नद्यः यथा वाऽप्यतृणं वनम् ।
अगोपाला यथा गावः तथा राष्ट्रमराजकम् ॥ २९ ॥
ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं [२] विभावसोः ।
तेषां यो नो ध्वजो राजा स देवत्वमितो गतः ॥ ३० ॥

 रथस्य प्रज्ञानं-तत्स्थितिज्ञापकं, तथा विभावसोश्व धूमो ज्ञानं- तत्स्थितिज्ञापकम् । तेषां राजकर्तॄणां नः-अस्माकं यो राजा ध्वजः- अस्मासु राज्यव्यवहारप्रतिष्ठापक:, सः इतो देवत्वं गतः ॥ ३० ॥

नाराजके जनपदे स्वकं भवति कस्यचित् ।
[३]मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ॥ ३१ ॥
[४]ये हि संभिन्नमर्यादा नास्तिकाः छिन्नसंशयाः ।
तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ॥ ३२ ॥

 ये हि संभिन्नमर्यादा :- उल्लङ्घितस्वस्वजातिवर्णाश्रममर्यादाः, अत एव पूर्वं राजदण्डनिपीडिताः-नास्तिकाः सन्ति, तेऽपि च इदानीं छिन्नसंशया: - राजदण्डाशङ्कारहितास्सन्तः भवाय-प्रभवाय कल्पन्ते- समस्त दैष्टिकपीडासमर्था भवन्तीत्यर्थः || ३२ ॥


  1. वसन्ते शाखिन:-वृक्षा इव ।
  2. विभावसु:-अग्नि:
  3. प्रबलै: दुर्बलनाश इत्यर्थः ।
  4. छिन्नसंशया:-कृत्याकृत्यविचारशून्या: राजदण्डनिपीडिता: भावाय-साधुत्वाय कल्पन्ते-योग्या भवन्ति, नृपे सतीति शेषः-ती.
    दैविक-ग.