पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७ सर्ग:]
89
राजा माता पिता चैव सदा हितकरो नृणाम्


 विषाणिनः- प्रशस्तदन्तवन्तः । षष्टिः हायनाः येषां ते षष्टिहायनाः ॥ २० ॥

नाराजके जनपदे [१] शरान् सततमस्यताम् ।
श्रूयते तलनिर्घोषः इष्वस्त्राणामुपासने ॥ २१ ॥
नाराजके जनपदे वणिजो दूरगामिनः ।
गच्छन्ति क्षेममध्वानं [२] बहुपण्यसमाचिताः ॥ २२ ॥
नाराजके जनपदे चरत्येकचरो वशी ।
भावयन्नात्मनाऽऽत्मानं [३] यत्र सायंगृहो मुनिः ॥ २३ ॥

 एकः असहाय एव चरतीत्येकचरः ॥ २३ ॥

नाराजके जनपदे [४]योगक्षेमं प्रवर्तते ।
न चाप्यराजके सेना शत्रून् विषहते युधि ॥ २४ ॥
नाराजके जनपदे हृष्टैः परमवाजिभिः ।
नराः संयान्ति सहसा रथैश्च प्रतिमण्डितैः ॥ २५ ॥

 प्रतिमण्डितैः - अलंकृतैः रथैः ॥ २५ ॥

नाराजके जनपदे नराः शास्त्रविशारदाः ।
संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥ २६ ॥


  1. अस्यतां क्षिपतां । उपासने-अभ्यासे ’स्यादुपासनमभ्यास:’ इत्यमरः ।
    तलनिर्घोष:--ज्याकरतलनिर्घोषः - गो. सन्तोणत् करतलघोषो वा ।
  2. बहुपण्यैः समाचिता:-समृद्धाः, यद्वा पण्यानां क्रय्यद्रव्याणां समाचिता:- दशभारा: 'आचितो दशभार:
    स्यात्' इत्यमरः, बहवः पण्यसमाचिताः येषां ते तथा- गो.
  3. यस्मिन् देशे सायंकालो भवति तदेव गृहं यस्य- तादृशो वशी- जितेन्द्रियो मुनिः असहाय: न चरितुं
    प्रभवति ॥
  4. योगक्षेम:- ङ.