पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
86
[अयोध्याकाण्डः
अराजकदो वर्णनम्


 पञ्चत्वं-मरणम् ॥ ५ ॥

स्वर्गतश्च महाराजः रामश्चारण्यमाश्रितः ।
लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह ॥ ६ ॥
उभौ भरतशत्रुघ्नो केकयेषु परन्तपौ ।
पुरे राजगृहे रम्ये मातामहनिवेशने [१] ॥ ७ ॥

 केकयेष्विति । अवान्तरभेदापेक्षया बहुवचनम्। राजगृहे- राजगृहाख्ये ॥ ७ ॥

इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् ।
[२]अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् ॥ ८ ॥

 इह - अद्य उपदिष्टानां इक्ष्वाकूणां चतुर्णां कुमाराणां मध्ये कश्चित् राजा विधीयताम् । नः- अस्माकं राष्ट्रं अराजकं सत् यथा चेन्नाशं नाप्नुयात् तथा विधीयतामित्यन्वयः ॥ ८ ॥

नाराजके जनपदे विद्युन्माली महास्वनः ।
अभिवर्षति पर्जन्यः महीं दिव्येन वारिणा ॥ ९ ॥

विद्युन्माली - व्रीह्यादित्वादिनिः ॥ ९ ॥

नाराजके जनपदे बीजमुष्टिः प्रकीर्यते । नाराजके पितुः पुत्रः भार्या वा वर्तते वशे ॥ १० ॥  बीजमुष्टिः न प्रकीर्यत इति । क्षोभात् भयात्, फलप्राप्तौ लुण्टाकशङ्कया, प्रमाणाभावाच्चेत्याशयः । पितुर्वशे पुत्रो न वर्तते इत्यादिकं, अतिक्रमे दण्डयित्रभावात् ॥ १० ॥


  1. वर्तते इति शेषः- गो.
  2. अत्र तिलके तु- "राजकं सद्धि राष्ट्रं नो नाशं नावाप्नुयाद्यथा । इति कतकसम्मतः पाठः । नः-अस्माकं राष्ट्र राजक-राजयुतं सत्
    नाशं नाप्नुयाद्यथा तथा कश्चिद्राजा विधीयतामित्यन्वयः । हिर्वाक्यालङ्कार" इत्यनूदितम् ।