पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७ सर्गः]
85
अतस्ते राजकर्तारः बसिष्ठं गुरुमब्रुवन्


सप्तषष्टितमः सर्गः
[अराजकदोषवर्णनम्]

[१]आक्रन्दितनिरानन्दा सास्रकण्ठजनाकुला ।
अयोध्यायामवतता सा व्यतीयाय शर्वरी ॥ १ ॥

 अथ मन्त्रिपुरोहितादिभिः संमन्त्रणं राजाभिषेकाय । [२] आकन्दितेत्यादि । मत्वर्थीयाजन्तः [३] आक्रन्दितवती; अत एव निरानन्दा च तथा । अयोध्यायां अवतता-दीर्घा ॥ १ ॥

व्यतीतायां तु शर्वर्यां आदित्यस्योदये ततः ।
समेत्य राजकर्तारः [४] सभामीयुर्द्विजातयः ॥ २ ॥

 [५] राजकर्तारः - राजा कर्ता-साक्षात् शिक्षणकर्ता येषां ते तथा ; राज्ञोऽशेषकार्यकर्तारश्च तथा मन्त्रिपुरोहितादय इति यावत् ॥ २ ॥

मार्कण्डेयोऽथ मौहल्यः वामदेवश्च काश्यपः ।
कात्यायनो गौतमच जाबालिश्च महायशाः ॥ ३ ॥
एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन् ।
वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम् ॥ ४ ॥

 पृथग्वाचमिति । भिन्नभिन्नप्रस्थानतया राजकार्यविषये अब्रुवन् । एवञ्च कार्यसिद्ध्योगात् वसिष्ठमेव प्रमाणीकृत्य तमेवाभिमुखा बभूवुः ॥

अतीता शर्वरी [६] [७] दुःखं या नो वर्षशतोपमा ।
अस्मिन् पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे ॥ ५ ॥


  1. आक्रन्दिता-च.
  2. आक्रन्दितेन हेतुना निरानन्दा-गो.
  3. आक्रन्दशब्दात् इतस्विवक्षणे, मत्वर्थीयाजन्तत्वाश्रयणं व्यर्थमेव ॥
  4. सभा- वसिष्ठसभा ।
  5. राजकर्तार:-राजाभिषेक-कार्यकर्तारः- गो. वस्तुतस्तु राज्यनिर्वाहकाः अमात्यमन्त्रिप्रभृतय इत्यर्थः ।
  6. दुःखं प्रति क्रियाविशेषणम् ।
  7. दुःखा-ङ.