पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७ सर्ग:]
87
भगवन् ! राजहीनं हि राज्यं नाशमवाप्नुयात्

[१]नाराजके धनं [२] चास्ति नास्ति भार्याऽप्यराजके ।
इदमत्याहितं चान्यत् कुतः [३] सत्यमराजके ॥ ११ ॥

 [४] धनाद्यभावश्च (स्व)परिपालकाभावादेव । इदं-उक्तरूपं अत्याहितं महद्भयं अराजके प्रथमं प्राप्नोति । अन्यत् सत्यमिति । पितापुत्रपतिभार्यारूपप्रधानसत्यात् अन्यत् सत्यं – क्रयविक्रयादिलक्षणं कुतः ! ॥ ११ ॥

[५] नाराजके जनपदे [६] केऽपि यन्ति सभां नराः ।
उद्यानानि च रम्याणि हृष्टाः [७] पुष्यगृहाणि च ॥ १२ ॥

 यन्ति-प्राप्नुवन्ति; न्यायविचारायेति शेषः । उद्यानादीनि च न यन्तीति-वस्त्राद्यपहारभयादेव ॥ १२ ॥

नाराजके जनपदे यज्ञशीला द्विजातयः ।
सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः ॥ १३ ॥

 सत्रं - यत्र सर्वे दीक्षिताः, सर्वे च ऋत्विजः तदेव, तत् नान्वासते-नानुतिष्ठन्ति [८] ॥ १३ ॥

नाराजके जनपदे महायज्ञेष [९] यज्वनः
ब्राह्मणा वसु[१०]संपूर्णाः विसृजन्त्याप्तदक्षिणाः ॥ १४ ॥


  1. अरा-च.
  2. नास्ति-च.
  3. सौख्य-ङ.
  4. धनं नास्ति चोरभयात् । भार्या नास्ति बन्धुनिग्रहादिति भाव:- गो. विटाद्युपद्रवादिति वा हेतुः । एवं धर्ममूलानां भार्यादीनामेवाभावे अन्यत् किं वा व्यवतिष्ठतेत्याशयः॥
  5. स्वमनीषितमेव न्यायं मन्येरन्निति भावः । कारयन्ति इति (गो.)
    पाठे-उद्यानादीनि न कारयन्ति ।
  6. कारयन्ति-ङ. च
  7. पुष्यगृहं-देवतायतनम्- गो.मठादिर्वा-ती.
  8. विघ्नभयादिति शेषः ।
  9. यज्वन:- यज्वानः वसुसंपन्ना अपि आप्तदक्षिणा:- भूरिदक्षिणाः
    न विसृजन्ति न दिशन्ति, आढ्यत्वव्यञ्जनेन दण्डभयात्- गो. भूरदक्षिणा: यज्वन:-
    ऋत्विज: प्रति न विसृजन्ति-ति.
  10. संपन्ना:- ङ.