पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
72
[अयोध्याकाण्ड:
अन्त:पुराक्रन्द:

पञ्चषष्टितमः सर्गः [अन्तःपुराक्रन्दः]

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि ।
वन्दिनः पर्युपातिष्ठन् तत् पार्थिवनिवेशनम् ॥ १ ॥

 एवमर्धरात्रे उत्सृष्टप्राणतः कौसल्याद्यैरविज्ञातनिर्याणतः यथापूर्वमुषसि राजोचितव्यवहारे प्रवृत्तेऽपि राज्ञो यथोचितव्यवहारादर्शनात् शनैः राजनिर्याणं ज्ञात्वा तदुचितव्यवहारे प्रवृत्तिः । अथेत्यादि । रात्र्यां--शेषरात्र्याम् ॥ १ ॥

सूताः [१] परमसंस्काराः [२] मंगलाश्चोत्तमश्चुताः ।
[३] गायकाः [४] श्रुतिशीलाश्च [५] निगदन्तः [६] पृथक्पृथक् ॥

 परमसंस्काराः - उत्तमव्याकरणसंस्कारोपेतशब्दवन्तः । मङ्गलाः- मागधाः-वंशावलिकीर्तकाः । [७] उत्तमं श्रुतं-वंशपरंपराश्रवणं येषां ते तथा । गायका:- वन्दिनः । श्रुतिशीला:-तन्त्री नादविभागशीलाः । पृथक्पृथक् निगदन्त इति । स्वस्वमार्गानुसारेणेति शेषः ॥ २ ॥

राजानं स्तुवतां तेषां [८]उदात्ताभिहिताशिषाम् ।
प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥ ३ ॥

 उदात्ताभिहिताशिषां - उदात्ततया - उच्चैष्ट्वैन अभिहिताः आशिषः तथा । प्रासादानामाभोगेषु विस्तीर्ण इति । प्रतिध्वनिनेति शेषः ॥ ३ ॥


  1. स्नानालंकारादिसंस्कारविशिष्टाश्च अस्यार्थः ।
  2. मागधाः-च.
  3. गायनाः-ङ.
  4. स्तुतिशी-ङ.
  5. निनदन्तः-ङ.
  6. सूतमागधवन्दिन: ' इति तत्रतत्रोत्कीर्तनात् त्रयाणामेषां कृत्यस्य मिन्नत्वात् पृथक्पृथगित्युक्तम् ॥
  7. उत्तमं श्रुतं-गान्धर्वशास्त्रश्रवणं येषां ते-गो.
  8. उत्तम, उदार-ङ.