पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४ सर्गः ]
71
हा रामेत्येवमाक्रन्दन् प्राणान् दशरथो जहौ

[१] संयुक्तः - इन्द्रियसंयुक्तस्सन् ॥ ७४ ॥

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।
क्षीणस्नेहस्य दीपस्य [२] संसक्ता रश्मयो यथा ॥ ७५ ॥
अयमात्मभवः शोकः मामनाथमचेतनम् ।
संसादयति वेगेन यथा कूलं नदीरयः ॥ ७६ ॥
हे राघव ! महाबाहो !! हा ममायासनाशन !!!
हा पितृप्रिय ! मे नाथ !! हाऽद्य क्वासि गतः सुत !!! ॥ ७७॥
हा कौसल्ये ! नशिष्यामि हा सुमित्रे ! तपस्विनि !
हा नृशंसे ममामित्रे कैकेयि ! कुलपांसनि ! ॥ ७८ ॥
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
राजा दशरथः शोचन् जीवितान्तमुपागमत् ॥ ७९ ॥
 तथा तु दीनं कथयन् नराधिपः
  प्रियस्य पुत्रस्य विवासनातुरः ।
 गतेऽर्धरात्रे भृशदुःखपीडितः
  तदा जहौ [३] प्राणमुदारदर्शनः ॥ ८० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुःषष्टितमः सर्गः


नन्द (८०) मानः सर्गः ॥ ८० ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुष्षष्टितमः सर्गः



  1. संयुक्तान् इन्द्रियसंयुक्तान् न वेदये न जाने-गो.
  2. संसक्ता:-सम्बन्धिनः ॥
  3. प्राणशब्दस्य एकवचनान्तत्वमार्षम् । अथ वा ’प्राणो हृन्मारुते’ ,
    'हृदि प्राणो गुदेऽपानः' इत्यादौ वायुविशेषरूपप्राणवाचिशब्दस्य एकवचनान्तत्वदर्शनात्
    तदेव पदं अत्रापि विवक्षितम् ।