पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५ स्वर्ग:]
73
प्रातरेव तु सर्वेऽपि मृतं तं जशिरे नृपम्

ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः ।
अपदानान्युदाहृत्य पाणिवादानवादयन् ॥ ४ ॥

 पाणिवादकाः-तालोपेतपाणिवादनशीलाः । अपदानं-वृत्तं कर्म राजीयं, तदुदाहृत्य तदनुगतं पाणिवादानवादयन् ॥ ४ ॥

तेन शब्देन विहगाः प्रतिबुद्धाश्च सस्वनुः ।
[१]शारिकाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥ ५ ॥
व्याहृताः [२] पुण्यशब्दाश्च वीणानां चापि निस्वनाः ।
आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ ६ ॥

 स्वनतेः फणादित्वात् एत्वाभ्यासलोपाभावपक्षे सस्वनुरिति । [३] राजकुलगोचरा ये शुकादिपक्षिणः सन्ति, तैः [४] व्याहृताः पुण्यशब्दाः-काशीगङ्गाविश्वेश्वरादिपुण्यक्षेत्रतीर्थमहादेवतागोचरा इत्यर्थः । गाथानां - केवलगाथागायकानां अशीर्गेयं-आशीर्वादप्रधानं गानम् ॥

ततः शुचिसमाचारा: [५] पर्युपस्थानकोविदाः ।
स्त्रीवर्ष[६] वरभूयिष्ठाः उपतस्थुर्यथापुरम् ॥ ७ ॥

स्त्रीभिः वर्षवरैश्च भूयिष्ठास्तथा, 'षण्डो वर्षवरस्तुल्यौ ॥ ७ ॥

हरिचन्दनसंसक्तं उदकं काञ्चनैर्घटैः ।
आनिन्युः [७][८] स्नान शिक्षाज्ञाः यथाकालं यथाविधि ॥८॥

 स्नानशिक्षाज्ञाः – अरुणोदयात् पूर्वमेव गत्वा राज्ञः उषसि स्नानार्थमानेतव्यमिति शिक्षाज्ञाः तथा ॥ ८ ॥


  1. शाखास्था:- ङ.
  2. पुण्यशब्दा:- हरिनारायणादिपुण्यशब्दाः । यद्वा पुण्यश्लोकपुरुषाणां कीर्तनानि-ती.
  3. राजकुलगोचराः - राजकुलवासयोग्या:-ति.
  4. व्याहृता:-ब्राह्मणैसक्ताः- गो.
  5. पर्युपस्थानं-परिचरणम् ॥
  6. धर-ङ.
  7. स्नानशिक्षाकान्- स्नानपद्धतिज्ञान् ।
  8. शिक्षाशान्-ड.