एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९ सर्ग:]]
59
तदा सीताऽब्रवीत् श्रीत्या रामं रनोवधे स्थितम्
परदाराभिगमनं विना वैरं च रौद्रता ||
किं तत् कामजं व्यसनम् ? कश्चायमधर्मः तन्निवृत्त्या निवर्त- नीय: ? इत्यपेक्षायामाह-त्रीण्येवेति । कानि त्रीण ? अतः मिथ्या- वाक्यमित्यादि । स्वदेह स्त्रीपुत्रवितादिरागवगात् मिथ्यावाक्यप्रवृत्तिः पुंसो भवति परमव्यसनभूनम्, स्वार्थे कः | तस्मात् व्यसनादनन्तरं उभौ व्यसनविशेषौ गुरुतरौ - अत्यन्तव्यसनरूपौ । कौ तौ ? इत्यतः- परदारेत्यादि । रौद्रता - रौद्रभावावलम्बनम् ॥ ३ ॥
एवं व्यसनत्रयं निरूप्य प्रकृते अधर्मप्राप्तिपरिहाराय परिहार्थं व्यसनं परिशेषयितुं आह—नवेयादि । एतत् - उतव्यसनेषु यदेतत् परदाराभिमर्शनात्मकं व्यसनं उक्तम्, हे मनुष्येन्द्र ! तत् तव नास्ति वर्तमान कालेऽपि, ते-तव नाभून्, इतः प्राकू; अपिच, हे राम! मनसाऽपि तथा प्रसङ्गः क्वचिदपि परस्त्रीविषये न विद्यते ॥ ५ ॥