पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
60
[ अरण्यकाण्ड:
सीताधर्मप्रतिबोधनम्



 हे नृपात्मज ! ते नित्यमेव खदारनिरतत्वं च विद्यते। धर्मिष्ठः सत्यसन्धः पितुर्निर्देश कारकश्च भवसि । त्वयि घर्मः प्रतिष्ठितः । त्वयि सर्वं सत्यं प्रतिष्ठितम् ॥ ६-७ ॥

तच्च सर्वं, महाबाहो [१] शक्यं [२]वा विजितेन्द्रियैः ।
तव वश्येन्द्रियत्वं च जानामि, शुभदर्शन ! ॥ ८ ॥

 तच्च सर्व – 'तव नास्ति मनुष्येन्द्र ' इत्युपक्रम्य उपदिष्टार्थजातं, विजितेन्द्रियैः अनुष्ठातुं शक्यं वा - शक्यमेव । तथाऽनुष्ठानसामर्थ्य रूपं तव वश्येन्द्रियत्वं च जानामि । अतो वश्येन्द्रीयत्वात् मिथ्यावाक्यं च त्रैकालिक नास्ति । वश्येन्द्रियत्वादेव सकलधर्मनाशनं परेषां स्त्रीणामभिमर्शनं, तत्सङ्गोऽपि वा कुतः ॥ ८ ॥

[३]तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् ।
निर्वैरं क्रियते मोहात् तच्च ते समुपस्थितम् ।। ९ ।।

एवं वश्येन्द्रियमात्रसुजयासत्यवाक्यपरदाराभिमर्शने वश्येन्द्रियत मे त्वयि प्रसक्तिरहिते एव । अतुि तृतीयव्यसनप्रसक्तया प्राप्यते अधर्मः प्रथमप्रतिज्ञातः इत्याह - तृतीयमित्यादि । यदिदं परप्राणाभि हिंसनं तृतीयं रौद्रतारूपं व्यसनमस्ति, तच मोहात्, यतो निर्वैरं क्रियते; तचैतत् निर्वैररौद्रतारूपं अधर्मान्तरं पाठः, व्याकृतश्च । एवं स्थिते — “ अयं धर्मः सुसूक्ष्मेण विधिना-प्राप्यते महान्' इति प्रथमं पठित्वा – “निवृत्तेन तु शक्योऽयं



  1. सत्यं-ज.
  2. वोदुं-ज.
  3. नात्र बश्येन्द्रियत्वमुपयुज्यते, स्वतो जिघांसाऽभावेऽपि परार्थहिंसायां तस्यानु-
    पयोगात्; किन्तु दयैवात्रापेक्ष्यत इत्याशयः । एतदेवोपोद्दलयति 'मोहात्' इति पदम् ।
    यथा अन्यै; मोहात क्रियते, तदेव भवतोऽपि प्राप्तम् इत्यर्थः ॥