पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
58
[अरण्यकाण्ड:
सीताभमै प्रतिबोधनम्


नवमः सर्गः

[सीताधर्मप्रतिबोधनम्]


[१]सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् ।
[२]हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ॥ १ ॥

 अथ सीतायाः जगन्मातृम्वभावत्वात् रामादपि परमदयाक्षमा- युक्तत्वात् अनिर्वैग्ग्क्षोवघं अन्याय्यमिव मन्यमाना तत्त्वबुभुत्सया कानिचिद्वचांसि सीता ब्रूते । सुतीक्ष्णेनेत्यादि । हृद्यया – उपपत्तिमत्त्वेन हृदयङ्गमया। स्निग्धया - सहप्रवृत्तया ॥ १ ॥

[३]
[४]अधर्मं तु सुम्मूक्ष्मेण विधिना प्राप्यते महान् ।
निवृत्तेन तु शक्योऽयं व्यसनात् कामजादिह ॥ २ ॥

 इदमब्रवीदिति, किंतदित्यत आह - अभ्रमं त्वित्यादि । महान्- महात्मा - महापुरुषः यद्यपि भवान्, अथापि सूक्ष्मेण विधिना सूक्ष्म मार्गेण विचारे सति अधर्मं तु प्राप्यते, अपेः छान्दसः इयन्, कर्तरि यग्वा छान्दसः; अधर्ममेव प्रशांति भवानित्यर्थः । अयं अधर्मस्तु कामजाद्य तनात् निवृत्तेन त्वया निवर्तितुं शक्यः ॥ २ ॥

त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत ।
मिथ्या [५] वाक्यं [६] परमकं तस्मात् गुरुतरावुभौ ॥ ३ ॥



  1. यदि त्वं सायुषो राक्षसभूयिष्ठे प्रदेशे प्रविष्ट: स्या:, तर्हि तैस्साकं विरोध:
    स्यात्ते, नावयोविश्लेषः स्यात्. भतो निधायायुधं अस्मामिर्धने गन्तव्यमित्याह....
    रामेण ऋषिभ्य: प्रतिशाकरणे, रामप्रतिज्ञाया दुरावरत्वं च बहुशो दृष्टवत्यपि,राक्षसैर्वैरे
    भर्तुः स्वविरहद्वारा महान् कुशो भवेदिति प्रेमान्यतया तथोकनती-गो.
  2. वैदेही-ड.
  3. महानयं धर्म:-त्वयाऽनुष्ठीयमानो मुनिधर्मः सुसूक्ष्मेण विधिना-मार्गेण प्राप्यते । अयं च धर्मः
    व्यसनाव निवृत्तेनैव शक्यः-गो.
  4. अयं धर्मः, यस्तु धर्म:
  5. बादं-ड
  6. सामान्यतः श्रेष्ठं पापं । एतस्मादपि अन्यौ गुरुतरौ ।