पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८ सर्गः]
57
सुतीक्ष्णः प्रार्थयामास तेषामागमनं पुन



[१]ततः शुभतरे तूणी धनुषी चायवेक्षणा ।
ददौ सीता तयोर्भ्रात्रोः खङ्गौ च [२] विमलौ ततः ॥ १८ ॥
आबध्य च शुभे तूणी [३] चाप चादाय [४] । सस्वने ।

 खड्डौ च विमलौ ततः इति । ततः- धनुरादिदानानन्तरं, विमला- सुनिशातौ खड्डौ च ददावित्यन्वयः । चापे इति । चापशब्दो द्विलिङ्गः ।। १८ ।।

निष्क्रान्तावाश्रमाद्गन्तुं उभौ तौ रामलक्ष्मणौ । १९ ।।
[५] श्रीमन्तौ रूपसंपन्नी दीप्यमानौ स्वतेजसा ।
प्रस्थितौ दृढचाप तौ सीतया सह राघवी || २० ।।

 इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे अष्टमः सर्गः




नर (२०) मानः सर्गः || २० ॥

 इति श्रीमहामायणा/मृतकतकटीकायां अरण्यकाण्डे अष्टम: सर्ग:



  1. ततः शुभतरेत्यादिनाऽयमर्थोऽवगम्यते-- आश्रमप्रवेशे किमस्माकमायुधैरिति मन्य-
    माना सीता आयुधानि मुनिगृहे कचिन्निहितवती । अथ 'अमागण' इत्यादिरामवाक्येन
    रिंगछ' इत्यादि मुनिवाक्येन च तयोः हृदयं विदित्वा स्वयमेवादाय पुनर्दत्तवतीति !
    एवोत्तरसमें स्वाशयं वक्ष्यति गो. वस्तुतस्तु प्रयाणादिकाले गृहणी--जनन्यादि-
    कार्यमिदं सर्वानुभवसिद्धम् ।
  2. कनकत्सरू-ङ,
  3. चापौ नादाय सम्वनौ-सर्वत्र.
  4. अनेन धनुष: सन्नद्धता सूज्यते
  5. शीघ्रं तौ-ज.