पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७ सर्गः]
53
नारीचयत्त रामस्तत् दिवृक्षुः कृत्स्नमाश्रमम्



 नैवं कृत्वा इह मया स्थातुं शक्यमित्याह —भवांस्तत्रेति । मृगसंघवध इत्यर्थः । भवान् मया अभिषज्येत अभिपूर्वात् षञ्जेः कर्मणि लिङ्, “ अभिषङ्गः पराभवः" मया कृतापराधो भवेत् । ततः परं मे कुच्छतरं किं स्यात् ? न किमपि यदेवं, अतः - एतम्मिन् इत्यादि । चिरं वासं तु न समर्थय-नेच्छामि । इह स्थितः मृगसङ्घपीडां सोढ्वा स्थातव्यं, हत्वाऽवस्थाने तु महर्षेरपचरः । अतः इह चिरवासो न रोचते मह्यमित्यर्थः ॥ १९ ॥

[१]तमेव[२] मुक्ता वरदं रामः संध्यामुपागमत् ।। २० ।।

 संध्यामुपागमदिति। संध्यां वन्दितुं उपागतनानित्यर्थः ॥ २०॥

अन्वास्य पश्चिमांसंध्यां तत्र वासमवल्पयत् ।
सुतीक्ष्णस्याश्रमे [३] रम्ये सीतया लक्ष्मणेन च ॥ २१ ॥
ततः शुभं तापस [४] भोज्यमनं
स्वयं सुतीक्ष्णः पुरुपर्षमाभ्याम् ।
ताभ्यां सुसत्कृत्य ददौ महात्मा
संध्यानिवृत्तौ रजनमिवेक्ष्य ॥ २२ ॥

 इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे सप्तमः सर्गः




 संध्या निवृत्तौ-संध्यारागनिवृत्तौ सत्यां रजनी अभ्यवहाराहाँ समीक्ष्येत्यर्थः । रुरु (२२) मानः सर्गः ॥ २२ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे सप्तमः सर्गः



  1. तमेव मुक्तोपरम मितिपाठे - उअरमं-- अरम्य । कचित् उपरम्येत्येव पाठ:-ति.
    वरद मिल्यनेन मुनिसथैवानुशातवानिति गम्यते - गो.
  2. मुक्तोपरमं - ङ. च.
  3. राम: - ङ.
  4. योग्यमनं - ङ.